सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले । सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये
तत्र दुन्दुभयो नेदुः देवमानव वादिताः । शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः
तस्य निर्हरणादीनि सम्परेतस्य भार्गव । युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत्
तुष्टुवुर्मुनयो हृष्टाः कृष्णं तत् गुह्यनामभिः । ततस्ते कृष्णहृदयाः स्वाश्रमान्प्रययुः पुनः
ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् । पितरं सान्त्वयामास गान्धारीं च तपस्विनीम्
पित्रा चानुमतो राजा वासुदेवानुमोदितः । चकार राज्यं धर्मेण पितृपैतामहं विभुः
पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः । तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः
तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा । प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः
अभ्यर्चितस्त्वया नूनं भगवान् प्रणतार्तिहा । यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम्
लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः । आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत्पुरम्
तत्र तत्रोपसङ्कॢप्तैः लसन् मकरतोरणैः । सवृन्दैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः
चूतपल्लववासःस्रङ् मुक्तादामविलम्बिभिः । उपस्कृतं प्रतिद्वारं अपां कुम्भैः सदीपकैः
प्राकारैः गोपुरागारैः शातकुम्भपरिच्छदैः । सर्वतोऽलङ्कृतं श्रीमद् विमानशिखरद्युभिः
मृष्टचत्वररथ्याट्ट मार्गं चन्दनचर्चितम् । लाजाक्षतैः पुष्पफलैः तण्डुलैर्बलिभिर्युतम्
ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः । सिद्धार्थाक्षतदध्यम्बु दूर्वापुष्पफलानि च
उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः । शृण्वन् तद्वल्गुगीतानि प्राविशद्भवनं पितुः
महामणिव्रातमये स तस्मिन् भवनोत्तमे । लालितो नितरां पित्रा न्यवसद् दिवि देववत्
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः । आसनानि महार्हाणि यत्र रौक्मा उपस्कराः
यत्र स्फटिककुड्येषु महामारकतेषु च । मणिप्रदीपा आभान्ति ललनारत्नसंयुताः
उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः । कूजद्विहङ्गमिथुनैः गायन्मत्तमधुव्रतैः
वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः । हंसकारण्डवकुलैः जुष्टाश्चक्राह्वसारसैः
उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् । श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम्
वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम् । अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम्
आत्मानं च प्रवयसं आकलय्य विशाम्पतिः । वनं विरक्तः प्रातिष्ठद् विमृशन्नात्मनो गतिम्
शौनक उवाच । (वंशस्थ) हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः । सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किमकारषीत्ततः
सूत उवाच । वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरिः । निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह
निशम्य भीष्मोक्तमथाच्युतोक्तं प्रवृत्त विज्ञान विधूत विभ्रमः । शशास गामिन्द्र इवाजिताश्रयः परिध्युपान्तां अनुजानुवर्तितः
(अनुष्टुप्) कामं ववर्ष पर्जन्यः सर्वकामदुघा मही । सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा
नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः । फलन्त्योषधयः सर्वाः कामं अन्वृतु तस्य वै
नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः । अजातशत्रौ अवभवन् जन्तूनां राज्ञि कर्हिचित्