युधि तुरगरजो विधूम्र विष्वक् कचलुलितश्रमवारि अलङ्कृतास्ये । मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा
सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य । स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु
व्यवहित पृतनामुखं निरीक्ष्य स्वजनवधात् विमुखस्य दोषबुद्ध्या । कुमतिम अहरत् आत्मविद्यया यः चश्चरणरतिः परमस्य तस्य मेऽस्तु
स्वनिगममपहाय मत्प्रतिज्ञां ऋतमधि कर्तुमवप्लुतो रथस्थः । धृतरथ चरणोऽभ्ययात् चलद्गुः हरिरिव हन्तुमिभं गतोत्तरीयः
शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे । प्रसभं अभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः
विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तत् श्रियेक्षणीये । भगवति रतिरस्तु मे मुमूर्षोः यमिह निरीक्ष्य हता गताः स्वरूपम्
ललित गति विलास वल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः । कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः
मुनिगण नृपवर्यसङ्कुलेऽन्तः सदसि युधिष्ठिर राजसूय एषाम् । अर्हणं उपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा
तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्म कल्पितानाम् । प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूत भेदमोहः
सूत उवाच । (अनुष्टुप्) कृष्ण एवं भगवति मनोवाक् दृष्टिवृत्तिभिः । आत्मनि आत्मानमावेश्य सोऽन्तःश्वास उपारमत्
सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले । सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये
तत्र दुन्दुभयो नेदुः देवमानव वादिताः । शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः
तस्य निर्हरणादीनि सम्परेतस्य भार्गव । युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत्
तुष्टुवुर्मुनयो हृष्टाः कृष्णं तत् गुह्यनामभिः । ततस्ते कृष्णहृदयाः स्वाश्रमान्प्रययुः पुनः
ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् । पितरं सान्त्वयामास गान्धारीं च तपस्विनीम्
पित्रा चानुमतो राजा वासुदेवानुमोदितः । चकार राज्यं धर्मेण पितृपैतामहं विभुः
पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः । तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः
तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा । प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः
अभ्यर्चितस्त्वया नूनं भगवान् प्रणतार्तिहा । यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम्
लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः । आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत्पुरम्
तत्र तत्रोपसङ्कॢप्तैः लसन् मकरतोरणैः । सवृन्दैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः
चूतपल्लववासःस्रङ् मुक्तादामविलम्बिभिः । उपस्कृतं प्रतिद्वारं अपां कुम्भैः सदीपकैः
प्राकारैः गोपुरागारैः शातकुम्भपरिच्छदैः । सर्वतोऽलङ्कृतं श्रीमद् विमानशिखरद्युभिः
मृष्टचत्वररथ्याट्ट मार्गं चन्दनचर्चितम् । लाजाक्षतैः पुष्पफलैः तण्डुलैर्बलिभिर्युतम्
ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः । सिद्धार्थाक्षतदध्यम्बु दूर्वापुष्पफलानि च
उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः । शृण्वन् तद्वल्गुगीतानि प्राविशद्भवनं पितुः
महामणिव्रातमये स तस्मिन् भवनोत्तमे । लालितो नितरां पित्रा न्यवसद् दिवि देववत्
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः । आसनानि महार्हाणि यत्र रौक्मा उपस्कराः
यत्र स्फटिककुड्येषु महामारकतेषु च । मणिप्रदीपा आभान्ति ललनारत्नसंयुताः
उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः । कूजद्विहङ्गमिथुनैः गायन्मत्तमधुव्रतैः