दृष्ट्वा निपतितं भूमौ दिवश्च्युतं इवामरम् । प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा
तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम । राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम्
पर्वतो नारदो धौम्यो भगवान् बादरायणः । बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः
वसिष्ठ इन्द्रप्रमदः त्रितो गृत्समदोऽसितः । कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः
अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः । शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः
तान् समेतान् महाभागान् उपलभ्य वसूत्तमः । पूजयामास धर्मज्ञो देशकालविभागवित्
कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् । हृदिस्थं पूजयामास माययोपात्त विग्रहम्
पाण्डुपुत्रान् उपासीनान् प्रश्रयप्रेमसङ्गतान् । अभ्याचष्टानुरागाश्रैः अन्धीभूतेन चक्षुषा
अहो कष्टमहोऽन्याय्यं यद् यूयं धर्मनन्दनाः । जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः
संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः । युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः
सर्वं कालकृतं मन्ये भवतां च यदप्रियम् । सपालो यद्वशे लोको वायोरिव घनावलिः
यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः । कृष्णोऽस्त्री गाण्डिवं चापं सुहृत् कृष्णः ततो विपत्
न ह्यस्य कर्हिचित् राजन् पुमान् वेद विधित्सितम् । यत् विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि
तस्मात् इदं दैवतंत्रं व्यवस्य भरतर्षभ । तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो
एष वै भगवान् साक्षात् आद्यो नारायणः पुमान् । मोहयन् मायया लोकं गूढश्चरति वृष्णिषु
अस्यानुभावं भगवान् वेद गुह्यतमं शिवः । देवर्षिर्नारदः साक्षात् भगवान् कपिलो नृप
यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् । अकरोः सचिवं दूतं सौहृदादथ सारथिम्
सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः । तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित्
तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् । यत् मे असून् त्यजतः साक्षात् कृष्णो दर्शनमागतः
भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् । त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः
(वंशस्थ) स देवदेवो भगवान् प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम् । प्रसन्नहासारुणलोचनोल्लसन् मुखाम्बुजो ध्यानपथश्चतुर्भुजः
सूत उवाच । (अनुष्टुप्) युधिष्ठिरः तत् आकर्ण्य शयानं शरपञ्जरे । अपृच्छत् विविधान् धर्मान् ऋषीणां चानुश्रृण्वताम्
पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् । वैराग्यरागोपाधिभ्यां आम्नातोभयलक्षणान्
दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः । स्त्रीधर्मान् भगवद्धर्मान् समासव्यास योगतः
धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने । नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित्
धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः । यो योगिनः छन्दमृत्योः वाञ्छितस्तु उत्तरायणः
(वंशस्थ) तदोपसंहृत्य गिरः सहस्रणीः विमुक्तसङ्गं मन आदिपूरुषे । कृष्णे लसत्पीतपटे चतुर्भुजे पुरः स्थितेऽमीलित दृग् व्यधारयत्
विशुद्धया धारणया हताशुभः तदीक्षयैवाशु गतायुधश्रमः । निवृत्त सर्वेन्द्रिय वृत्ति विभ्रमः तुष्टाव जन्यं विसृजन् जनार्दनम्
श्रीभीष्म उवाच । (पुष्पिताग्रा) इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि । स्वसुखमुपगते क्वचित् विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः
त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृत आननाब्जं विजयसखे रतिरस्तु मेऽनवद्या