पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मजः । ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचलः
सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् । ध्यायन् भगवतो रूपं नाद्राक्षीत् किंचनापरम्
आधारं महदादीनां प्रधानपुरुषेश्वरम् । ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे
यदैकपादेन स पार्थिवार्भकः तस्थौ तदङ्गुष्ठनिपीडिता मही । ननाम तत्रार्धमिभेन्द्रधिष्ठिता तरीव सव्येतरतः पदे पदे
तस्मिन् अभिध्यायति विश्वमात्मनो द्वारं निरुध्यासुमनन्यया धिया । लोका निरुच्छ्वासनिपीडिता भृशं सलोकपालाः शरणं ययुर्हरिम्
देवा ऊचुः - नैवं विदामो भगवन् प्राणरोधं चराचरस्याखिलसत्त्वधाम्नः । विधेहि तन्नो वृजिनाद्विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम्
श्रीभगवानुवाच - मा भैष्ट बालं तपसो दुरत्ययान् निवर्तयिष्ये प्रतियात स्वधाम । यतो हि वः प्राणनिरोध आसीत् औत्तानपादिर्मयि सङ्गतात्मा
सूत उवाच । (अनुष्टुप्) इति भीतः प्रजाद्रोहात् सर्वधर्मविवित्सया । ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत्
तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः । अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा
भगवानपि विप्रर्षे रथेन सधनञ्जयः । स तैर्व्यरोचत नृपः कुबेर इव गुह्यकैः
दृष्ट्वा निपतितं भूमौ दिवश्च्युतं इवामरम् । प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा
तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम । राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम्
पर्वतो नारदो धौम्यो भगवान् बादरायणः । बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः
वसिष्ठ इन्द्रप्रमदः त्रितो गृत्समदोऽसितः । कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः
अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः । शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः
तान् समेतान् महाभागान् उपलभ्य वसूत्तमः । पूजयामास धर्मज्ञो देशकालविभागवित्
कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् । हृदिस्थं पूजयामास माययोपात्त विग्रहम्
पाण्डुपुत्रान् उपासीनान् प्रश्रयप्रेमसङ्गतान् । अभ्याचष्टानुरागाश्रैः अन्धीभूतेन चक्षुषा
अहो कष्टमहोऽन्याय्यं यद् यूयं धर्मनन्दनाः । जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः
संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः । युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः
सर्वं कालकृतं मन्ये भवतां च यदप्रियम् । सपालो यद्वशे लोको वायोरिव घनावलिः
यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः । कृष्णोऽस्त्री गाण्डिवं चापं सुहृत् कृष्णः ततो विपत्
न ह्यस्य कर्हिचित् राजन् पुमान् वेद विधित्सितम् । यत् विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि
तस्मात् इदं दैवतंत्रं व्यवस्य भरतर्षभ । तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो
एष वै भगवान् साक्षात् आद्यो नारायणः पुमान् । मोहयन् मायया लोकं गूढश्चरति वृष्णिषु
अस्यानुभावं भगवान् वेद गुह्यतमं शिवः । देवर्षिर्नारदः साक्षात् भगवान् कपिलो नृप
यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् । अकरोः सचिवं दूतं सौहृदादथ सारथिम्
सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः । तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित्
तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् । यत् मे असून् त्यजतः साक्षात् कृष्णो दर्शनमागतः
भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् । त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः