अप्यनाथं वने ब्रह्मन् मा स्मादन्त्यर्भकं वृकाः । श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम्
अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय । योऽङ्कं प्रेम्णाऽऽरुरुक्षन्तं नाभ्यनन्दमसत्तमः
नारद उवाच - मा मा शुचः स्वतनयं देवगुप्तं विशाम्पते । तत्प्रभावं अविज्ञाय प्रावृङ्क्ते यद्यशो जगत्
सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः । ऐष्यत्यचिरतो राजन् यशो विपुलयंस्तव
मैत्रेय उवाच - इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपतिः । राजलक्ष्मीमनादृत्य पुत्रं एवान्वचिन्तयत्
तत्राभिषिक्तः प्रयतः तां उपोष्य विभावरीम् । समाहितः पर्यचर दृष्यादेशेन पूरुषम्
त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः । आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन् हरिम्
द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने । तृणपर्णादिभिः शीर्णैः कृतान्नोऽभ्यर्चयन् विभुम्
तृतीयं चानयन् मासं नवमे नवमेऽहनि । अब्भक्ष उत्तमश्लोकं उपाधावत्समाधिना
चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि । वायुभक्षो जितश्वासो ध्यायन् देवमधारयत्
पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मजः । ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचलः
सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् । ध्यायन् भगवतो रूपं नाद्राक्षीत् किंचनापरम्
आधारं महदादीनां प्रधानपुरुषेश्वरम् । ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे
यदैकपादेन स पार्थिवार्भकः तस्थौ तदङ्गुष्ठनिपीडिता मही । ननाम तत्रार्धमिभेन्द्रधिष्ठिता तरीव सव्येतरतः पदे पदे
तस्मिन् अभिध्यायति विश्वमात्मनो द्वारं निरुध्यासुमनन्यया धिया । लोका निरुच्छ्वासनिपीडिता भृशं सलोकपालाः शरणं ययुर्हरिम्
देवा ऊचुः - नैवं विदामो भगवन् प्राणरोधं चराचरस्याखिलसत्त्वधाम्नः । विधेहि तन्नो वृजिनाद्विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम्
श्रीभगवानुवाच - मा भैष्ट बालं तपसो दुरत्ययान् निवर्तयिष्ये प्रतियात स्वधाम । यतो हि वः प्राणनिरोध आसीत् औत्तानपादिर्मयि सङ्गतात्मा
सूत उवाच । (अनुष्टुप्) इति भीतः प्रजाद्रोहात् सर्वधर्मविवित्सया । ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत्
तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः । अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा
भगवानपि विप्रर्षे रथेन सधनञ्जयः । स तैर्व्यरोचत नृपः कुबेर इव गुह्यकैः
दृष्ट्वा निपतितं भूमौ दिवश्च्युतं इवामरम् । प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा
तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम । राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम्
पर्वतो नारदो धौम्यो भगवान् बादरायणः । बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः
वसिष्ठ इन्द्रप्रमदः त्रितो गृत्समदोऽसितः । कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः
अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः । शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः
तान् समेतान् महाभागान् उपलभ्य वसूत्तमः । पूजयामास धर्मज्ञो देशकालविभागवित्
कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् । हृदिस्थं पूजयामास माययोपात्त विग्रहम्
पाण्डुपुत्रान् उपासीनान् प्रश्रयप्रेमसङ्गतान् । अभ्याचष्टानुरागाश्रैः अन्धीभूतेन चक्षुषा
अहो कष्टमहोऽन्याय्यं यद् यूयं धर्मनन्दनाः । जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः
संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः । युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः