(वंशस्थ) श्रृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम्
अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित् सुहृदोऽनुजीविनः । येषां न चान्यत् भवतः पदाम्बुजात् परायणं राजसु योजितांहसाम्
(अनुष्टुप्) के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः । भवतोऽदर्शनं यर्हि हृषीकाणां इव ईशितुः
नेयं शोभिष्यते तत्र यथेदानीं गदाधर । त्वत्पदैः अङ्किता भाति स्वलक्षणविलक्षितैः
इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः । वनाद्रि नदी उदन्वन्तो ह्येधन्ते तव वीक्षितैः
अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे । स्नेहपाशं इमं छिन्धि दृढं पाण्डुषु वृष्णिषु
त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् । रतिं उद्वहतात् अद्धा गङ्गेवौघं उदन्वति
(वसंततिलका) श्रीकृष्ण कृष्णसख वृष्णि ऋषभावनिध्रुग् राजन्यवंशदहन अनपवर्ग वीर्य । गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन् नमस्ते
सूत उवाच । (अनुष्टुप्) पृथयेत्थं कलपदैः परिणूताखिलोदयः । मन्दं जहास वैकुण्ठो मोहयन्निव मायया
तां बाढं इति उपामंत्र्य प्रविश्य गजसाह्वयम् । स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः
व्यासाद्यैरीश्वरेहा ज्ञैः कृष्णेनाद्भुतकर्मणा । प्रबोधितोऽपि इतिहासैः नाबुध्यत शुचार्पितः
आह राजा धर्मसुतः चिन्तयन् सुहृदां वधम् । प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः
अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः । पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः
बालद्विजसुहृन् मित्र पितृभ्रातृगुरु द्रुहः । न मे स्यात् निरयात् मोक्षो ह्यपि वर्ष अयुत आयुतैः
नैनो राज्ञः प्रजाभर्तुः धर्मयुद्धे वधो द्विषाम् । इति मे न तु बोधाय कल्पते शासनं वचः
स्त्रीणां मत् हतबंधूनां द्रोहो योऽसौ इहोत्थितः । कर्मभिः गृहमेधीयैः नाहं कल्पो व्यपोहितुम्
यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् । भूतहत्यां तथैवैकां न यज्ञैः मार्ष्टुमर्हति
जपश्च परमो गुह्यः श्रूयतां मे नृपात्मज । यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान्
ॐ नमो भगवते वासुदेवाय । मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुधः । सपर्यां विविधैर्द्रव्यैः देशकालविभागवित्
सलिलैः शुचिभिर्माल्यैः वन्यैर्मूलफलादिभिः । शस्ताङ्कुरांशुकैश्चार्चेत् तुलस्या प्रियया प्रभुम्
लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत् । आभृतात्मा मुनिः शान्तो यतवाङ्मितवन्यभुक्
स्वेच्छावतारचरितैः अचिन्त्यनिजमायया । करिष्यति उत्तमश्लोकः तद् ध्यायेद् हृदयङ्गमम्
परिचर्या भगवतो यावत्यः पूर्वसेविताः । ता मंत्रहृदयेनैव प्रयुञ्ज्यान् मंत्रमूर्तये
एवं कायेन मनसा वचसा च मनोगतम् । परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया
पुंसां अमायिनां सम्यक् भजतां भाववर्धनः । श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम्
विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा । तं निरन्तरभावेन भजेताद्धा विमुक्तये
इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः । ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम्
तपोवनं गते तस्मिन् प्रविष्टोऽन्तःपुरं मुनिः । अर्हितार्हणको राज्ञा सुखासीन उवाच तम्
नारद उवाच - राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता । किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः
राजोवाच - सुतो मे बालको ब्रह्मन् स्त्रैणेना-करुणात्मना । निर्वासितः पञ्चवर्षः सह मात्रा महान्कविः