वृन्दावनस्य संयोगात् पुनस्त्वं तरुणी नवा । धन्यं वृन्दावनं तेन भक्तिः नृत्यति यत्र च
अत्रेमौ ग्राहकाभावात् न जरामपि मुञ्चतः । किञ्चित् आत्मसुखेनेह प्रसुप्तिः मन्यतेऽनयोः
भक्तिरुवाच - कथं परीक्षिता राज्ञा स्थापितो ह्यशुचिः कलिः । प्रवृत्ते तु कलौ सर्वसारः कुत्र गतो महान्
करुणापरेण हरिणापि अधर्म कथमीक्ष्यते । इमं मे संशयं छिन्धि त्वद्वाचा सुखितास्म्यहम्
नारद उवाच - यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु । सर्वं वक्ष्यामि ते भद्रे कश्मलं ते गमिष्यति
यदा मुकुन्दो भगवान् क्ष्मां त्यक्त्वा स्वपदं गतः । तद्दिनात् कलिरायातः सर्वसाधनबाधकः
दृष्टो दिग्विजये राज्ञा दीनवत् शरणं गतः । न मया मारणीयोऽयं सारंग इव सरभुक्
यत्फलं नास्ति तपसा न योगेन समाधिना । तत्फलं लभते सम्यक् कलौ केशवकीर्तनात्
एकाकारं कलिं दृष्ट्वा सारवत्सारनीरसम् । विष्णुरातः स्थापितवान् कलिजानां सुखाय च
कुकर्माचरनात्सारः सर्वतो निर्गतोऽधुना । पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथा
विप्रैर्भागवती वार्ता गेहे गेहे जने जने । कारिता कणलोभेन कथासारस्ततो गतः
अत्युग्रभूरिकर्माणो नास्तिका रौरवा जनाः । तेऽपि तिष्ठन्ति तीर्थेषु तीर्थसारस्ततो गतः
कामक्रोध महालोभ तृष्णाव्याकुलचेतसः । तेऽपि तिष्ठन्ति तपसि तपःसारस्ततो गतः
मनसश्चाजयात् लोभाद् दंभात् पाखण्डसंश्रयात् । शास्त्रान् अभ्यसनाच्चैव ध्यानयोगफलं गतम्
पण्डितास्तु कलत्रेण रमन्ते महिषा इव । पुत्रस्योत्पादने दक्षा अदक्षा मुक्तिसाधने
न हि वैष्णवता कुत्र संप्रदायपुरःसरा । एवं प्रलयतां प्राप्तो वस्तुसारः स्थले स्थले
अयं तु युगधर्मो हि वर्तते कस्य दूषणम् । अतस्तु पुण्डरीकाक्षः सहते निकटे स्थितः
सूत उवाच - इति तद्वचनं श्रुत्वा विस्मयं परमं गता । भक्तिरूचे वचो भूयः श्रूयतां तच्च शौनक
भक्तिरुवाच - सुरर्षे त्वं हि धन्योऽसि मद्भाग्येन समागतः । साधूनां दर्शनं लोके सर्वसिद्धिकरं परम्
(मालिनी) जयति जयति मायां यस्य कायाधवस्ते वचनरचनमेकं केवलं चाकलय्य । ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयं सकलकुशलपात्रं ब्रह्मपुत्रं नतास्मि
श्रीमद्भागवतमाहात्म्यम् - द्वितीयोऽध्यायः भक्तेः क्लेशनिवृत्तये नारदस्य उद्योगः नारद उवाच - (अनुष्टुप्) वृथा खेदयसे बाले अहो चिन्तातुरा कथम् । श्रीकृष्णचरणाम्भोजं स्मर दुःखं गमिष्यति
द्रौपदी च परित्राता येन कौरवकश्मलात् । पालिता गोपसुन्दर्यः स कृष्णः क्वापि नो गतः
त्वंतु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका । त्वयाऽऽहूतस्तु भगवान् याति नीचगृहेष्वपि
सत्यादित्रियुगे बोध वैराग्यौ मुक्तिसाधकौ । कलौ तु केवला भक्तिः ब्रह्मसायुज्यकारिणी
इति निश्चित्य चिद्रूपः सद्रूपां त्वां ससर्ज ह । परमानन्दचिन्मूर्ति सुंदरीं कृष्णवल्लभाम्
बद्ध्वांजलिं त्वया पृष्टं किं करोमीति चैकदा । त्वां तदाऽऽज्ञापयत् कृष्णो मद्भक्तान् पोषयेति च
अंगीकृतं त्वया तद्वै प्रसन्नोऽभूत् हरिस्तदा । मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकौ इमौ
पोषणं स्वेन रूपेण वैकुण्ठे त्वं करोषि च । भूमौ भक्तविपोषाय छायारूपं त्वया कृतम्
मुक्तिं ज्ञानं विरक्तिं च सह कृत्वा गता भुवि । कृतादि द्वापरस्यान्तं महानन्देन संस्थिता
कलौ मुक्तिः क्षयं प्राप्ता पाखण्डामयपीडिता । त्वद् आज्ञया गता शीघ्रं वैकुण्ठं पुनरेव सा