मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते । य इदं मायया देव्या सृजत्यवति हन्त्यजः
ब्रह्मतेजोविनिर्मुक्तैः आत्मजैः सह कृष्णया । प्रयाणाभिमुखं कृष्णं इदमाह पृथा सती
कुन्त्युवाच । नमस्ये पुरुषं त्वाऽऽद्यं ईश्वरं प्रकृतेः परम् । अलक्ष्यं सर्वभूतानां अन्तर्बहिरवस्थितम्
मायाजवनिकाच्छन्नं अज्ञाधोक्षजमव्ययम् । न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा
तथा परमहंसानां मुनीनां अमलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः
कृष्णाय वासुदेवाय देवकीनंदनाय च । नंदगोपकुमाराय गोविंदाय नमो नमः
नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये
(वंशस्थ) यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता । विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात्
विषान्महाग्नेः पुरुषाददर्शनाद् असत्सभाया वनवासकृच्छ्रतः । मृधे मृधेऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः
(अनुष्टुप्) विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्गुरो । भवतो दर्शनं यत्स्याद् अपुनर्भवदर्शनम्
जन्मैश्वर्यश्रुतश्रीभिः एधमानमदः पुमान् । नैवार्हत्यभिधातुं वै त्वां अकिञ्चनगोचरम्
नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये । आत्मारामाय शान्ताय कैवल्यपतये नमः
मन्ये त्वां कालमीशानं अनादिनिधनं विभुम् । समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः
(वंशस्थ) न वेद कश्चिद् भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् । न यस्य कश्चिद् दयितोऽस्ति कर्हिचिद् द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम्
(अनुष्टुप्) जन्म कर्म च विश्वात्मन् अजस्याकर्तुरात्मनः । तिर्यङ् नृषिषु यादःसु तद् अत्यन्तविडम्बनम्
(वसंततिलका) गोप्याददे त्वयि कृतागसि दाम तावद् या ते दशाश्रुकलिल अञ्जन संभ्रमाक्षम् । वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति
(अनुष्टुप्) केचिद् आहुः अजं जातं पुण्यश्लोकस्य कीर्तये । यदोः प्रियस्य अन्ववाये मलयस्येव चन्दनम्
अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् । अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम्
भारावतारणायान्ये भुवो नाव इवोदधौ । सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः
भवेऽस्मिन् क्लिश्यमानानां अविद्याकामकर्मभिः । श्रवण स्मरणार्हाणि करिष्यम् इति केचन
(वंशस्थ) श्रृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम्
अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित् सुहृदोऽनुजीविनः । येषां न चान्यत् भवतः पदाम्बुजात् परायणं राजसु योजितांहसाम्
(अनुष्टुप्) के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः । भवतोऽदर्शनं यर्हि हृषीकाणां इव ईशितुः
नेयं शोभिष्यते तत्र यथेदानीं गदाधर । त्वत्पदैः अङ्किता भाति स्वलक्षणविलक्षितैः
इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः । वनाद्रि नदी उदन्वन्तो ह्येधन्ते तव वीक्षितैः
अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे । स्नेहपाशं इमं छिन्धि दृढं पाण्डुषु वृष्णिषु
त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् । रतिं उद्वहतात् अद्धा गङ्गेवौघं उदन्वति
(वसंततिलका) श्रीकृष्ण कृष्णसख वृष्णि ऋषभावनिध्रुग् राजन्यवंशदहन अनपवर्ग वीर्य । गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन् नमस्ते
सूत उवाच । (अनुष्टुप्) पृथयेत्थं कलपदैः परिणूताखिलोदयः । मन्दं जहास वैकुण्ठो मोहयन्निव मायया
तां बाढं इति उपामंत्र्य प्रविश्य गजसाह्वयम् । स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः