याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः । तद्यशः पावनं दिक्षु शतमन्योरिवातनोत्
आमंत्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः । द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः
गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थितः । उपलेभेऽभिधावन्तीं उत्तरां भयविह्वलाम्
उत्तरोवाच पाहि पाहि महायोगिन् देवदेव जगत्पते । नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम्
अभिद्रवति मामीश शरस्तप्तायसो विभो । कामं दहतु मां नाथ मा मे गर्भो निपात्यताम्
सूत उवाच । उपधार्य वचस्तस्या भगवान् भक्तवत्सलः । अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत
तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् । आत्मनोऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्युपाददुः
व्यसनं वीक्ष्य तत्तेषां अनन्यविषयात्मनाम् । सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः
अन्तःस्थः सर्वभूतानां आत्मा योगेश्वरो हरिः । स्वमाययाऽऽवृणोद्गर्भं वैराट्याः कुरुतन्तवे
यद्यप्यस्त्रं ब्रह्मशिरः त्वमोघं चाप्रतिक्रियम् । वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह
मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते । य इदं मायया देव्या सृजत्यवति हन्त्यजः
ब्रह्मतेजोविनिर्मुक्तैः आत्मजैः सह कृष्णया । प्रयाणाभिमुखं कृष्णं इदमाह पृथा सती
कुन्त्युवाच । नमस्ये पुरुषं त्वाऽऽद्यं ईश्वरं प्रकृतेः परम् । अलक्ष्यं सर्वभूतानां अन्तर्बहिरवस्थितम्
मायाजवनिकाच्छन्नं अज्ञाधोक्षजमव्ययम् । न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा
तथा परमहंसानां मुनीनां अमलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः
कृष्णाय वासुदेवाय देवकीनंदनाय च । नंदगोपकुमाराय गोविंदाय नमो नमः
नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये
(वंशस्थ) यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता । विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात्
विषान्महाग्नेः पुरुषाददर्शनाद् असत्सभाया वनवासकृच्छ्रतः । मृधे मृधेऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः
(अनुष्टुप्) विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्गुरो । भवतो दर्शनं यत्स्याद् अपुनर्भवदर्शनम्
जन्मैश्वर्यश्रुतश्रीभिः एधमानमदः पुमान् । नैवार्हत्यभिधातुं वै त्वां अकिञ्चनगोचरम्
नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये । आत्मारामाय शान्ताय कैवल्यपतये नमः
मन्ये त्वां कालमीशानं अनादिनिधनं विभुम् । समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः
(वंशस्थ) न वेद कश्चिद् भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् । न यस्य कश्चिद् दयितोऽस्ति कर्हिचिद् द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम्
(अनुष्टुप्) जन्म कर्म च विश्वात्मन् अजस्याकर्तुरात्मनः । तिर्यङ् नृषिषु यादःसु तद् अत्यन्तविडम्बनम्
(वसंततिलका) गोप्याददे त्वयि कृतागसि दाम तावद् या ते दशाश्रुकलिल अञ्जन संभ्रमाक्षम् । वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति
(अनुष्टुप्) केचिद् आहुः अजं जातं पुण्यश्लोकस्य कीर्तये । यदोः प्रियस्य अन्ववाये मलयस्येव चन्दनम्
अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् । अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम्
भारावतारणायान्ये भुवो नाव इवोदधौ । सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः
भवेऽस्मिन् क्लिश्यमानानां अविद्याकामकर्मभिः । श्रवण स्मरणार्हाणि करिष्यम् इति केचन