तासां पतत्रैः सुस्पर्शैः कूजितैर्मुग्धचेष्टितैः। प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः
स्नेहानुबद्धहृदयावन्योन्यं विष्णुमायया। विमोहितौ दीनधियौ शिशून्पुपुषतुः प्रजाः
एकदा जग्मतुस्तासामन्नार्थं तौ कुटुम्बिनौ। परितः कानने तस्मिन्नर्थिनौ चेरतुश्चिरम्
दृष्ट्वा तान्लुब्धकः कश्चिद्यदृच्छातो वनेचरः। जगृहे जालमातत्य चरतः स्वालयान्तिके
कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ। गतौ पोषणमादाय स्वनीडमुपजग्मतुः
कपोती स्वात्मजान्वीक्ष्य बालकान्जालसंवृतान्। तानभ्यधावत्क्रोशन्ती क्रोशतो भृशदुःखिता
सासकृत्स्नेहगुणिता! दीनचित्ताजमायया। स्वयं चाबध्यत शिचा बद्धान्पश्यन्त्यपस्मृतिः
कपोतः स्वात्मजान्बद्धानात्मनोऽप्यधिकान्प्रियान्। भार्यां चात्मसमां दीनो विललापातिदुःखितः
अहो मे पश्यतापायमल्पपुण्यस्य दुर्मतेः। अतृप्तस्याकृतार्थस्य गृहस्त्रैवर्गिको हतः
अनुरूपानुकूला च यस्य मे पतिदेवता। शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः
सोऽहं शून्ये गृहे दीनो मृतदारो मृतप्रजः। जिजीविषे किमर्थं वा विधुरो दुःखजीवितः
तांस्तथैवावृतान् शिग्भिर्मृत्युग्रस्तान्विचेष्टतः। स्वयं च कृपणः शिक्षु पश्यन्नप्यबुधोऽपतत्
तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम्। कपोतकान्कपोतीं च सिद्धार्थः प्रययौ गृहम्
एवं कुटुम्ब्यशान्तात्मा द्वन्द्वारामः पतत्रिवत्। पुष्णन्कुटुम्बं कृपणः सानुबन्धोऽवसीदति
यः प्राप्य मानुषं लोकं मुक्तिद्वारमपावृतम्। गृहेषु खगवत्सक्तस्तमारूढच्युतं विदुः
सूत उवाच । (अनुष्टुप्) अथ ते सम्परेतानां स्वानामुदकमिच्छताम् । दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः
ते निनीयोदकं सर्वे विलप्य च भृशं पुनः । आप्लुता हरिपादाब्जः अजःपूतसरिज्जले
तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् । गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः
सांत्वयामास मुनिभिः हतबंधून् शुचार्पितान् । भूतेषु कालस्य गतिं दर्शयन् अप्रतिक्रियाम्
साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् । घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः
याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः । तद्यशः पावनं दिक्षु शतमन्योरिवातनोत्
आमंत्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः । द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः
गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थितः । उपलेभेऽभिधावन्तीं उत्तरां भयविह्वलाम्
उत्तरोवाच पाहि पाहि महायोगिन् देवदेव जगत्पते । नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम्
अभिद्रवति मामीश शरस्तप्तायसो विभो । कामं दहतु मां नाथ मा मे गर्भो निपात्यताम्
सूत उवाच । उपधार्य वचस्तस्या भगवान् भक्तवत्सलः । अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत
तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् । आत्मनोऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्युपाददुः
व्यसनं वीक्ष्य तत्तेषां अनन्यविषयात्मनाम् । सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः
अन्तःस्थः सर्वभूतानां आत्मा योगेश्वरो हरिः । स्वमाययाऽऽवृणोद्गर्भं वैराट्याः कुरुतन्तवे
यद्यप्यस्त्रं ब्रह्मशिरः त्वमोघं चाप्रतिक्रियम् । वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह