असौ गुणमयैर्भावैः भूत सूक्ष्मेन्द्रियात्मभिः । स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान्
भावयत्येष सत्त्वेन लोकान्वै लोकभावनः । लीलावतारानुरतो देवतिर्यङ् नरादिषु
{श्रीमद्भागवतपुराणम्/स्कन्धः१} सूत उवाच। (अनुष्टुप्) जगृहे पौरुषं रूपं भगवान् महदादिभिः। संभूतं षोडशकलं आदौ लोकसिसृक्षया
यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः। नाभिह्रदाम्बुजादासीद् ब्रह्मा विश्वसृजां पतिः
यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः। तद् वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम्
(इंद्रवंशा) पश्यन्त्यदोरूपमदभ्रचक्षुषा। सहस्रपादोरुभुजाननाद्भुतम् । सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत्
(अनुष्टुप्) एतन्नानावताराणां निधानं बीजमव्ययम् । यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः
स एव प्रथमं देवः कौमारं सर्गमाश्रितः। चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम्
द्वितीयं तु भवायास्य रसातलगतां महीम्। उद्धरिष्यन् उपादत्त यज्ञेशः सौकरं वपुः
तृतीयं ऋषिसर्गं वै देवर्षित्वमुपेत्य सः । तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः
तुर्ये धर्मकलासर्गे नरनारायणौ ऋषी । भूत्वात्मोपशमोपेतं अकरोद् दुश्चरं तपः
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम्
षष्ठे अत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया। आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान्
ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत । स यामाद्यैः सुरगणैः अपात् स्वायंभुवान्तरम्
अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः । दर्शयन्वर्त्म धीराणां सर्वाश्रम नमस्कृतम्
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः । दुग्धेमामोषधीर्विप्राः तेनायं स उशत्तमः
रूपं स जगृहे मात्स्यं चाक्षुषोदधिसंप्लवे। नाव्यारोप्य महीमय्यां अपाद् वैवस्वतं मनुम्
सुरासुराणां उदधिं मथ्नतां मन्दराचलम् । दध्रे कमठरूपेण पृष्ठ एकादशे विभुः
धान्वन्तरं द्वादशमं त्रयोदशममेव च। अपाययत्सुरान्अन्यान् मोहिन्या मोहयन्स्त्रिया
चतुर्दशं नारसिंहं बिभ्रद् दैत्येन्द्रमूर्जितम् । ददार करजैरूरौ एरकां कटकृत् यथा
पञ्चदशं वामनकं कृत्वागादध्वरं बलेः। पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम्
अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् । त्रिःसप्तकृत्वः कुपितो निःक्षत्रां अकरोन्महीम्
ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः
नरदेवत्वमापन्नः सुरकार्यचिकीर्षया । समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम्
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवान् अहरद्भरम्
ततः कलौ संप्रवृत्ते सम्मोहाय सुरद्विषाम्। बुद्धो नाम्नां जनसुतः कीकटेषु भविष्यति
अथासौ युगसंध्यायां दस्युप्रायेषु राजसु । जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः
अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः । यथाविदासिनःकुल्याः सरसः स्युः सहस्रशः
ऋषयो मनवो देवा मनुपुत्रा महौजसः। कलाः सर्वे हरेरेव सप्रजापतयः तथा
एते चांशकलाःपुंसःकृष्णस्तु भगवान्स्वयम् । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे