अथोपेत्य स्वशिबिरं गोविंदप्रियसारथिः । न्यवेदयत् तं प्रियायै शोचन्त्या आत्मजान् हतान्
(वंशस्थ) तथाहृतं पशुवत्पाशबद्धं अवाङ्मुखं कर्मजुगुप्सितेन । निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च
(अनुष्टुप्) उवाच चासहन्त्यस्य बंधनानयनं सती । मुच्यतां मुच्यतां एष ब्राह्मणो नितरां गुरुः
सरहस्यो धनुर्वेदः सविसर्गोपसंयमः । अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात्
स एष भगवान् द्रोणः प्रजारूपेण वर्तते । तस्यात्मनोऽर्धं पत्न्याः ते नान्वगाद् वीरसूः कृपी
तद् धर्मज्ञ महाभाग भवद्भिः र्गौरवं कुलम् । वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः
मा रोदीदस्य जननी गौतमी पतिदेवता । यथाहं मृतवत्साऽर्ता रोदिम्यश्रुमुखी मुहुः
यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः । तत् कुलं प्रदहत्याशु सानुबंधं शुचार्पितम्
सूत उवाच । धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् । राजा धर्मसुतो राज्ञ्याः प्रत्यनंदद् वचो द्विजाः
नकुलः सहदेवश्च युयुधानो धनंजयः । भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः
तत्राहामर्षितो भीमः तस्य श्रेयान् वधः स्मृतः । न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा
निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः । आलोक्य वदनं सख्युः इदमाह हसन्निव
श्रीभगवानुवाच । ब्रह्मबंधुर्न हन्तव्य आततायी वधार्हणः । मयैवोभयमाम्नातं परिपाह्यनुशासनम्
कुरु प्रतिश्रुतं सत्यं यत्तत् सांत्वयता प्रियाम् । प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च
सूत उवाच । अर्जुनः सहसाऽऽज्ञाय हरेर्हार्दमथासिना । मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम्
विमुच्य रशनाबद्धं बालहत्याहतप्रभम् । तेजसा मणिना हीनं शिबिरान् निरयापयत्
वपनं द्रविणादानं स्थानान् निर्यापणं तथा । एष हि ब्रह्मबंधूनां वधो नान्योऽस्ति दैहिकः
पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया । स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम्
अथ सप्तमोऽध्यायः । श्रीभगवानुवाच। यदात्थ मां महाभाग तच्चिकीर्षितमेव मे। ब्रह्मा भवो लोकपालाः स्वर्वासं मेऽभिकाङ्क्षिणः
प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ। शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः
तासां पतत्रैः सुस्पर्शैः कूजितैर्मुग्धचेष्टितैः। प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः
स्नेहानुबद्धहृदयावन्योन्यं विष्णुमायया। विमोहितौ दीनधियौ शिशून्पुपुषतुः प्रजाः
एकदा जग्मतुस्तासामन्नार्थं तौ कुटुम्बिनौ। परितः कानने तस्मिन्नर्थिनौ चेरतुश्चिरम्
दृष्ट्वा तान्लुब्धकः कश्चिद्यदृच्छातो वनेचरः। जगृहे जालमातत्य चरतः स्वालयान्तिके
कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ। गतौ पोषणमादाय स्वनीडमुपजग्मतुः
कपोती स्वात्मजान्वीक्ष्य बालकान्जालसंवृतान्। तानभ्यधावत्क्रोशन्ती क्रोशतो भृशदुःखिता
सासकृत्स्नेहगुणिता! दीनचित्ताजमायया। स्वयं चाबध्यत शिचा बद्धान्पश्यन्त्यपस्मृतिः
कपोतः स्वात्मजान्बद्धानात्मनोऽप्यधिकान्प्रियान्। भार्यां चात्मसमां दीनो विललापातिदुःखितः
अहो मे पश्यतापायमल्पपुण्यस्य दुर्मतेः। अतृप्तस्याकृतार्थस्य गृहस्त्रैवर्गिको हतः
अनुरूपानुकूला च यस्य मे पतिदेवता। शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः