हरेर्गुणाक्षिप्तमतिः भगवान् बादरायणिः । अध्यगान् महदाख्यानं नित्यं विष्णुजनप्रियः
परीक्षितोऽथ राजर्षेः जन्मकर्मविलापनम् । संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम्
(इंद्रवज्रा) यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु । वृकोदराविद्धगदाभिमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्रे
भर्तुः प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि । उपाहरद् विप्रियमेव तस्य जुगुप्सितं कर्म विगर्हयन्ति
माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना । तदारुदद् बाष्पकलाकुलाक्षी तां सांत्वयन्नाह किरीटमाली
तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबंधोः शिर आततायिनः । गाण्डीवमुक्तैः विशिखैरुपाहरे त्वाक्रम्य यत्स्नास्यसि दग्धपुत्रा
(उपेंद्रवज्रा) इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः । अन्वाद्रवद् दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन
तमापतन्तं स विलक्ष्य दूरात् कुमारहोद्विग्नमना रथेन । पराद्रवत् प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद् यथार्कः
(अनुष्टुप्) यदाशरणमात्मानं ऐक्षत श्रान्तवाजिनम् । अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः
अथोपस्पृश्य सलिलं सन्दधे तत्समाहितः । अजानन् उपसंहारं प्राणकृच्छ्र उपस्थिते
ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् । प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह
अर्जुन उवाच । कृष्ण कृष्ण महाबाहो भक्तानामभयङ्कर । त्वमेको दह्यमानानां अपवर्गोऽसि संसृतेः
त्वमाद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः । मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि
स एव जीवलोकस्य मायामोहितचेतसः । विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम्
तथायं चावतारस्ते भुवो भारजिहीर्षया । स्वानां चानन्यभावानां अनुध्यानाय चासकृत्
किमिदं स्वित्कुतो वेति देवदेव न वेद्म्यहम् । सर्वतो मुखमायाति तेजः परमदारुणम्
श्रीभगवानुवाच । वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् । नैवासौ वेद संहारं प्राणबाध उपस्थिते
न ह्यस्यान्यतमं किञ्चिद् अस्त्रं प्रत्यवकर्शनम् । जह्यस्त्रतेज उन्नद्धं अस्त्रज्ञो ह्यस्त्रतेजसा
सूत उवाच । श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा । स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्माय संदधे
संहत्य अन्योन्यं उभयोः तेजसी शरसंवृते । आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत्
दृष्ट्वास्त्रतेजस्तु तयोः त्रिँल्लोकान् प्रदहन्महत् । दह्यमानाः प्रजाः सर्वाः सांवर्तकममंसत
प्रजोपप्लवमालक्ष्य लोकव्यतिकरं च तम् । मतं च वासुदेवस्य संजहारार्जुनो द्वयम्
तत आसाद्य तरसा दारुणं गौतमीसुतम् । बबंधामर्षताम्राक्षः पशुं रशनया यथा
शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् । प्राहार्जुनं प्रकुपितो भगवान् अंबुजेक्षणः
मैनं पार्थार्हसि त्रातुं ब्रह्मबंधुमिमं जहि । यो असौ अनागसः सुप्तान् अवधीन्निशि बालकान्
मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित्
स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः खलः । तद् वधस्तस्य हि श्रेयो यद् दोषाद्यात्यधः पुमान्
प्रतिश्रुतं च भवता पाञ्चाल्यै श्रृण्वतो मम । आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा
तदसौ वध्यतां पाप आतताय्यात्मबंधुहा । भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः
सूत उवाच । एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः । नैच्छद् हन्तुं गुरुसुतं यद्यप्यात्महनं महान्