(प्रहर्षिणी) एतां यो नियततया श्रृणोति भक्त्या यश्चैनां कथयति शुद्धवैष्णवाग्रे । तौ सम्यक् विधिकरणात्फलं लभेते याथार्थ्यान्न हि भुवने किमप्यसाध्यम्
शौनक उवाच । (अनुष्टुप्) निर्गते नारदे सूत भगवान् बादरायणः । श्रुतवांस्तदभिप्रेतं ततः किमकरोद् विभुः । सूत उवाच । ब्रह्मनद्यां सरस्वत्यां आश्रमः पश्चिमे तटे । शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः
तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते । आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम्
भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले । अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयम्
यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् । परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते
अनर्थोपशमं साक्षाद् भक्तियोगमधोक्षजे । लोकस्याजानतो विद्वांन् चक्रे सात्वतसंहिताम्
यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा
स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् । शुकं अध्यापयामास निवृत्तिनिरतं मुनिः
शौनक उवाच । स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः । कस्य वा बृहतीं एतां आत्मारामः समभ्यसत्
सूत उवाच । आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्ति अहैतुकीं भक्तिं इत्थंभूतगुणो हरिः
हरेर्गुणाक्षिप्तमतिः भगवान् बादरायणिः । अध्यगान् महदाख्यानं नित्यं विष्णुजनप्रियः
परीक्षितोऽथ राजर्षेः जन्मकर्मविलापनम् । संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम्
(इंद्रवज्रा) यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु । वृकोदराविद्धगदाभिमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्रे
भर्तुः प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि । उपाहरद् विप्रियमेव तस्य जुगुप्सितं कर्म विगर्हयन्ति
माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना । तदारुदद् बाष्पकलाकुलाक्षी तां सांत्वयन्नाह किरीटमाली
तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबंधोः शिर आततायिनः । गाण्डीवमुक्तैः विशिखैरुपाहरे त्वाक्रम्य यत्स्नास्यसि दग्धपुत्रा
(उपेंद्रवज्रा) इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः । अन्वाद्रवद् दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन
तमापतन्तं स विलक्ष्य दूरात् कुमारहोद्विग्नमना रथेन । पराद्रवत् प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद् यथार्कः
(अनुष्टुप्) यदाशरणमात्मानं ऐक्षत श्रान्तवाजिनम् । अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः
अथोपस्पृश्य सलिलं सन्दधे तत्समाहितः । अजानन् उपसंहारं प्राणकृच्छ्र उपस्थिते
ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् । प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह
अर्जुन उवाच । कृष्ण कृष्ण महाबाहो भक्तानामभयङ्कर । त्वमेको दह्यमानानां अपवर्गोऽसि संसृतेः
त्वमाद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः । मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि
स एव जीवलोकस्य मायामोहितचेतसः । विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम्
तथायं चावतारस्ते भुवो भारजिहीर्षया । स्वानां चानन्यभावानां अनुध्यानाय चासकृत्
किमिदं स्वित्कुतो वेति देवदेव न वेद्म्यहम् । सर्वतो मुखमायाति तेजः परमदारुणम्
श्रीभगवानुवाच । वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् । नैवासौ वेद संहारं प्राणबाध उपस्थिते
न ह्यस्यान्यतमं किञ्चिद् अस्त्रं प्रत्यवकर्शनम् । जह्यस्त्रतेज उन्नद्धं अस्त्रज्ञो ह्यस्त्रतेजसा
सूत उवाच । श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा । स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्माय संदधे
संहत्य अन्योन्यं उभयोः तेजसी शरसंवृते । आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत्