(अनुष्टुप्) स्वर्गे सत्ये च कैलासे वैकुण्ठे नास्त्ययं रसः । अतः पिबन्तु सद्भाग्या मा मा मुञ्चत कर्हिचित्
सूत उवाच - (इंद्रवंशा) एवं ब्रुवाणे सति बादरायणौ मध्ये सभायां हरिराविरासीत् । प्रह्रादबल्युद्धवफाल्गुनादिभिः वृत्तं सुरर्षिस्तमपूजयच्च तान्
दृष्ट्वा प्रसन्नं महदासने हरिं ते चक्रिरे कीर्तनमग्रतस्तदा । भवो भवान्या कमलासनस्तु तत्रागमत् कीर्तनदर्शनाय
(स्रग्धरा) प्रह्रादस्तालधारी तरलगतितया चोद्धवः कांस्यधारी वीणाधारी सुरर्षि स्वरकुशलतया रागकर्तार्जुनोऽभूत् । इन्द्रोऽवादीन्मृदङ्गं जय जय सुकराः कीर्तने ते कुमारा यत्राग्रे भववक्ता सरसरचनया व्यासपुत्रो बभूव
(उपेंद्रवज्रा) ननर्त मध्ये त्रिकमेव तत्र भक्त्यादिकानां नटवत्सुतेजसाम् । अलौलिकं कीर्तनमेतदीक्ष्य हरिः प्रसन्नोऽपि वचोऽब्रवीत् तत्
(इंद्रवज्रा) मत्तो वरं भाववृताद्वृणुध्वं प्रीतः कथाकीर्तनतोऽस्मि साम्प्रतम् । श्रुत्वेति तद्वाक्यमतिप्रसन्नाः प्रेमार्द्रचित्ता हरिमूचिरे ते
(उपेंद्रवज्रा) नगाहगाथासु च सर्वभक्तैः एभिस्त्वया भाव्यमिति प्रयत्नात् । मनोरथोऽयं परिपूरनीयः तथेति चोक्त्वान्तरधीयताच्युतः
(वंशस्थ) ततोऽनमत्तत् चरणेषु नारदः तथा शुकादीनपि तापसांश्च । अथ प्रहृष्टाः परिनष्टमोहाः सर्व ययुः पीतकथामृतास्ते
(इंद्रवज्रा) भक्तिः सुताभ्यां सह रक्षिता सा शास्त्रे स्वकीयेऽपि तदा शुकेन । अतो हरिर्भागवतस्य सेवनात् चित्तं समायाति हि वैष्णवानाम्
दारिद्र्यदुःखज्वरदाहितानां मायापिशाचीपरिमर्दितानाम् संसारसिन्धौ परिपातितानां क्षेमाय वै भागवतं प्रगर्जति
शौनक उवाच - (अनुष्टुप्) शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः । सुरर्षये कदा ब्राह्मैः छिन्धि मे संशयं त्विमम्
सूत उवाच - आकृष्णनिर्गमात् त्रिंशत् वर्षाधिकगते कलौ । नवमीतो नभस्ये च कथारंभं शुकोऽकरोत्
परीक्षित् श्रवणान्ते च कलौ वर्षशतद्वये । शुद्धे शुचौ नवम्यां च धेनुजोऽकथयत्कथाम्
तस्मादपि कलौ प्राप्ते त्रिंशत् वर्षगते सति । ऊचुरूर्जे सिते पक्षे नवम्यां ब्रह्मणः सुताः
इत्येत्तते समाख्यातं यत्पृष्टोऽहं त्वयानघ । कलौ भागवती वार्ता भवरोगविनाशिनी
(वसंततिलका) कृष्णप्रियं सकलकल्मषनाशनं च मुक्त्येकहेतुमिह भक्तिविलासकारि सन्तः कथानकमिदं पिबतादरेण लोके हि तीर्थपरिशीलनसेवया किम्
(अपरवक्त्र) स्वपुरुषमपि वीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर भगवत्कथासु मत्तान् प्रभुरहमन्युनृणां न वैष्णवानाम्
(शिखरिणी) असारे संसारे विषयविषसङ्गाकुलधियः क्षणार्धं क्षेमार्थं पिबत शुकगाथातुलसुधाम् । किमर्थं व्यर्थं भो व्रजथ कुपथे कुत्सितकथे परीक्षित्साक्षी यत् श्रवणगतमुक्त्युक्तिकथने
(अनुष्टुप्) रसप्रवाहसंस्थेन श्रीशुकेनेरिता कथा । कण्ठे संबध्यते येन स वैकुण्ठप्रभुर्भवेत्
(मालिनी) इति च परमगुह्यं सर्वसिद्धान्तसिद्धं सपदि निगदितं ते शास्त्रपुञ्जं विलोक्य । जगति शुककथातो निर्मलं नास्ति किञ्चित् पिब परसुखहेतोर्द्वादशस्कन्धसारम्
(प्रहर्षिणी) एतां यो नियततया श्रृणोति भक्त्या यश्चैनां कथयति शुद्धवैष्णवाग्रे । तौ सम्यक् विधिकरणात्फलं लभेते याथार्थ्यान्न हि भुवने किमप्यसाध्यम्
शौनक उवाच । (अनुष्टुप्) निर्गते नारदे सूत भगवान् बादरायणः । श्रुतवांस्तदभिप्रेतं ततः किमकरोद् विभुः । सूत उवाच । ब्रह्मनद्यां सरस्वत्यां आश्रमः पश्चिमे तटे । शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः
तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते । आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम्
भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले । अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयम्
यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् । परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते
अनर्थोपशमं साक्षाद् भक्तियोगमधोक्षजे । लोकस्याजानतो विद्वांन् चक्रे सात्वतसंहिताम्
यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा
स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् । शुकं अध्यापयामास निवृत्तिनिरतं मुनिः
शौनक उवाच । स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः । कस्य वा बृहतीं एतां आत्मारामः समभ्यसत्
सूत उवाच । आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्ति अहैतुकीं भक्तिं इत्थंभूतगुणो हरिः