नारदश्च कृतार्थोऽभूत् सिद्धे स्वीये मनोरथे । पुलकीकृतसर्वाङ्ग परमानन्दसम्भृतः
एवं कथां समाकर्ण्य नारदो भगवत्प्रियः । प्रेमगद्गदया वाचा तानुवाच कृताञलिः
नारद उवाच - धन्योस्मि अनुगृहितोऽस्मि भवद्भिः करुणापरैः । अद्य मे भगवान् लब्धः सर्वपापहरो हरिः
श्रवणं सर्वधर्मेभ्यो वरं मन्ये तपोधनाः । वैकुण्ठस्थो यतः कृष्णः श्रवणाद् यस्य लभ्यते
सूत उवाच - एवं ब्रुवति वै तत्र नारदे वैष्णवोत्तमे । परिभ्रमन् समायातः शुको योगेश्वरास्तदा
(वंशस्थ) तत्राययौ षोडशवार्षिकस्तदा व्यासात्मजो ज्ञानमहाब्धिचन्द्रमाः । कथावसाने निजलाभपूर्णः प्रेम्णा पठन् भागवतं शनैः शनैः
(इंद्रवंशा) दृष्ट्वा सदस्याः परमोरुतेजसं सद्यः समुत्थाय ददुर्महासनम् । प्रीत्या सुरर्षिस्तमपूजयत् सुखं स्थितोऽवदत् संश्रृणुतामलां गिरम्
श्रीशुक उवाच - (द्रुतविलंबित) निगमकल्पतरोर्गलितं फलं शुकमुखात् अमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं मुहुरको रसिका भुवि भावुकाः
(शार्दूलविक्रीडित) धर्मप्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात्
श्रीमद्भागवतं पुराणतिलकं यद्वैष्णवानां धनं यस्मिन् पारमहंस्यमेवममलं ज्ञानं परं गीयते । यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं तत् श्रुण्वन् प्रपठन् विचारणपरो भक्त्या विमुच्येन्नरः
(अनुष्टुप्) स्वर्गे सत्ये च कैलासे वैकुण्ठे नास्त्ययं रसः । अतः पिबन्तु सद्भाग्या मा मा मुञ्चत कर्हिचित्
सूत उवाच - (इंद्रवंशा) एवं ब्रुवाणे सति बादरायणौ मध्ये सभायां हरिराविरासीत् । प्रह्रादबल्युद्धवफाल्गुनादिभिः वृत्तं सुरर्षिस्तमपूजयच्च तान्
दृष्ट्वा प्रसन्नं महदासने हरिं ते चक्रिरे कीर्तनमग्रतस्तदा । भवो भवान्या कमलासनस्तु तत्रागमत् कीर्तनदर्शनाय
(स्रग्धरा) प्रह्रादस्तालधारी तरलगतितया चोद्धवः कांस्यधारी वीणाधारी सुरर्षि स्वरकुशलतया रागकर्तार्जुनोऽभूत् । इन्द्रोऽवादीन्मृदङ्गं जय जय सुकराः कीर्तने ते कुमारा यत्राग्रे भववक्ता सरसरचनया व्यासपुत्रो बभूव
(उपेंद्रवज्रा) ननर्त मध्ये त्रिकमेव तत्र भक्त्यादिकानां नटवत्सुतेजसाम् । अलौलिकं कीर्तनमेतदीक्ष्य हरिः प्रसन्नोऽपि वचोऽब्रवीत् तत्
(इंद्रवज्रा) मत्तो वरं भाववृताद्वृणुध्वं प्रीतः कथाकीर्तनतोऽस्मि साम्प्रतम् । श्रुत्वेति तद्वाक्यमतिप्रसन्नाः प्रेमार्द्रचित्ता हरिमूचिरे ते
(उपेंद्रवज्रा) नगाहगाथासु च सर्वभक्तैः एभिस्त्वया भाव्यमिति प्रयत्नात् । मनोरथोऽयं परिपूरनीयः तथेति चोक्त्वान्तरधीयताच्युतः
(वंशस्थ) ततोऽनमत्तत् चरणेषु नारदः तथा शुकादीनपि तापसांश्च । अथ प्रहृष्टाः परिनष्टमोहाः सर्व ययुः पीतकथामृतास्ते
(इंद्रवज्रा) भक्तिः सुताभ्यां सह रक्षिता सा शास्त्रे स्वकीयेऽपि तदा शुकेन । अतो हरिर्भागवतस्य सेवनात् चित्तं समायाति हि वैष्णवानाम्
दारिद्र्यदुःखज्वरदाहितानां मायापिशाचीपरिमर्दितानाम् संसारसिन्धौ परिपातितानां क्षेमाय वै भागवतं प्रगर्जति
शौनक उवाच - (अनुष्टुप्) शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः । सुरर्षये कदा ब्राह्मैः छिन्धि मे संशयं त्विमम्
सूत उवाच - आकृष्णनिर्गमात् त्रिंशत् वर्षाधिकगते कलौ । नवमीतो नभस्ये च कथारंभं शुकोऽकरोत्
परीक्षित् श्रवणान्ते च कलौ वर्षशतद्वये । शुद्धे शुचौ नवम्यां च धेनुजोऽकथयत्कथाम्
तस्मादपि कलौ प्राप्ते त्रिंशत् वर्षगते सति । ऊचुरूर्जे सिते पक्षे नवम्यां ब्रह्मणः सुताः
इत्येत्तते समाख्यातं यत्पृष्टोऽहं त्वयानघ । कलौ भागवती वार्ता भवरोगविनाशिनी
(वसंततिलका) कृष्णप्रियं सकलकल्मषनाशनं च मुक्त्येकहेतुमिह भक्तिविलासकारि सन्तः कथानकमिदं पिबतादरेण लोके हि तीर्थपरिशीलनसेवया किम्
(अपरवक्त्र) स्वपुरुषमपि वीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर भगवत्कथासु मत्तान् प्रभुरहमन्युनृणां न वैष्णवानाम्
(शिखरिणी) असारे संसारे विषयविषसङ्गाकुलधियः क्षणार्धं क्षेमार्थं पिबत शुकगाथातुलसुधाम् । किमर्थं व्यर्थं भो व्रजथ कुपथे कुत्सितकथे परीक्षित्साक्षी यत् श्रवणगतमुक्त्युक्तिकथने
(अनुष्टुप्) रसप्रवाहसंस्थेन श्रीशुकेनेरिता कथा । कण्ठे संबध्यते येन स वैकुण्ठप्रभुर्भवेत्
(मालिनी) इति च परमगुह्यं सर्वसिद्धान्तसिद्धं सपदि निगदितं ते शास्त्रपुञ्जं विलोक्य । जगति शुककथातो निर्मलं नास्ति किञ्चित् पिब परसुखहेतोर्द्वादशस्कन्धसारम्