( वियोगिनि ) प्रियरावपदानि भाषसे मृत सञ्जीविकयानया गिरा करवाणि किमद्य ते प्रियं वद मे वल्गितकण्ठ कोकिल
( पुष्पिताग्रा ) न चलसि न वदस्युदारबुद्धे क्षितिधर चिन्तयसे महान्तमर्थम् । अपि बत वसुदेवनन्दनाङ्घ्रिं वयमिव कामयसे स्तनैर्विधर्तुम्
( वसंततिलका ) शुष्यद्ध्रदाः करशिता बत सिन्धुपत्न्यः सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः । यद्वद् वयं मधुपतेः प्रणयावलोकम् अप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म
( शार्दूलविक्रिडित ) हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा । किं वा नश्चलसौहृदः स्मरति तं कस्माद्भजामो वयं क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम्
श्रीशुक उवाच - ( अनुष्टुप् ) इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे । क्रियमाणेन माधव्यो लेभिरे परमां गतिम्
श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः । उरुगायोरुगीतो वा पश्यन्तीनां कुतः पुनः
याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः । जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः
एवं वेदोदितं धर्मं अनुतिष्ठन् सतां गतिः । गृहं धर्मार्थकामानां मुहुश्चादर्शयत् पदम्
आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् । आसन् षोडशसाहस्रं महिष्यश्च शताधिकम्
तासां स्त्रीरत्नभूतानां अष्टौ याः प्रागुदाहृताः । रुक्मिणीप्रमुखा राजन् तत्पुत्राश्चानुपूर्वशः
एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् । यावत्य आत्मनो भार्या अमोघगतिरीश्वरः
तेषां उद्दामवीर्याणां अष्टादश महारथाः । आसन्नुदारयशसः तेषां नामानि मे शृणु
प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च । साम्बो मधुर्बृहद्भानुः चित्रभानुर्वृकोऽरुणः
पुष्करो वेदबाहुश्च श्रुतदेवः सुनन्दनः । चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च
एतेषां अपि राजेन्द्र तनुजानां मधुद्विषः । प्रद्युम्न आसीत् प्रथमः पितृवद् रुक्मिणीसुतः
स रुक्मिणो दुहितरं उपयेमे महारथः । तस्यां ततोऽनिरुद्धोऽभूत् नागायतबलान्वितः
स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः । वज्रस्तस्याभवद् यस्तु मौषलादवशेषितः
प्रतिबाहुरभूत्तस्मात् सुबाहुस्तस्य चात्मजः । सुबाहोः शान्तसेनोऽभूत् शतसेनस्तु तत्सुतः
न ह्येतस्मिन्कुले जाता अधना अबहुप्रजाः । अल्पायुषोऽल्पवीर्याश्च अब्रह्मण्याश्च जज्ञिरे
यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम् । सङ्ख्या न शक्यते कर्तुं अपि वर्षायुतैर्नृप
तिस्रः कोट्यः सहस्राणां अष्टाशीतिशतानि च । आसन्यदुकुलाचार्याः कुमाराणां इति श्रुतम्
सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् । यत्रायुतानां अयुत लक्षेणास्ते स आहुकः
देवासुराहवहता दैतेया ये सुदारुणाः । ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे
तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले । अवतीर्णाः कुलशतं तेषां एकाधिकं नृप
तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद्धरिः । ये चानुवर्तिनस्तस्य ववृधुः सर्वयादवाः
शय्यासनाटनालाप क्रीडास्नानादिकर्मसु । न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः
( स्रग्धरा ) तीर्थं चक्रे नृपोनं यदजनि यदुषु स्वःसरित्पादशौचं । विद्विट्स्निग्धाः स्वरूपं ययुरजितपरा श्रीर्यदर्थेऽन्ययत्नः । यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्मः कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य
( मालिनी ) जयति जननिवासो देवकीजन्मवादो यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् । स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन व्रजपुरवनितानां वर्धयन् कामदेवम्
( वसंततिलका ) इत्थं परस्य निजवर्त्मरिरक्षयात्त लीलातनोस्तदनुरूपविडम्बनानि । कर्माणि कर्मकषणानि यदूत्तमस्य श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन्
मर्त्यस्तयानुसवमेधितया मुकुन्द श्रीमत्कथाश्रवणकीर्तनचिन्तयैति । तद्धाम दुस्तरकृतान्तजवापवर्गं ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः