उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु । निर्विशद्भृङ्गविहगैः नादितायां समन्ततः
रेमे षोडशसाहस्र पत्नीनां एकवल्लभः । तावद्विचित्ररूपोऽसौ तद्गेहेषु महर्द्धिषु
प्रोत्फुल्लोत्पलकह्लार कुमुदाम्भोजरेणुभिः । वासितामलतोयेषु कूजद्द्विजकुलेषु च
विजहार विगाह्याम्भो ह्रदिनीषु महोदयः । कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम्
उपगीयमानो गन्धर्वैः मृदङ्गपणवानकान् । वादयद्भिर्मुदा वीणां सूतमागधवन्दिभिः
सिच्यमानोऽच्युतस्ताभिः हसन्तीभिः स्म रेचकैः । प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर्यक्षराडिव
( वसंततिलका ) ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः सिञ्चन्त्य उद्धृतबृहत्कवरप्रसूनाः । कान्तं स्म रेचकजिहीर्षययोपगुह्य जातस्मरोत्स्मयलसद् वदना विरेजुः
कृष्णस्तु तत्स्तनविषत् जितकुङ्कुमस्रक् क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः । सिञ्चन् मुन्मुहुर्युवतिभिः प्रतिषिच्यमानो रेमे करेणुभिरिवेभपतिः परीतः
( अनुष्टुप् ) नटानां नर्तकीनां च गीतवाद्योपजीविनाम् । क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य च स्त्रियः
कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः । नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः
ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम् । चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः श्रृणु
महिष्य ऊचुः - ( मालिनी ) कुररि विलपसि त्वं वीतनिद्रा न शेषे स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः । वयमिव सखि कच्चिद्गाढनिर्विद्धचेता नलिननयनहासोदारलीलेक्षितेन
( वसंततिलका ) नेत्रे निमीलयसि नक्तमदृष्टबन्धुः त्वं रोरवीषि करुणं बत चक्रवाकि । दास्यं गत वयमिवाच्युतपादजुष्टां किं वा स्रजं स्पृहयसे कबरेण वोढुम्
( मिश्र ) भो भोः सदा निष्टनसे उदन्वन् अलब्धनिद्रोऽधिगतप्रजागरः । किं वा मुकुन्दापहृतात्मलाञ्छनः प्राप्तां दशां त्वं च गतो दुरत्ययाम्
( वसंततिलका ) त्वं यक्ष्मणा बलवतासि गृहीत इन्दो क्षीणस्तमो न निजदीधितिभिः क्षिणोषि । कच्चिन् गकुन्दगदितानि यथा वयं त्वं विस्मृत्य भोः स्थगितगीरुपलक्ष्यसे नः
( अनुष्टुप् ) किं न्वाचरितमस्माभिः मलयानिल तेऽप्रियम् । गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम्
( मंदाक्रान्ता ) मेघ श्रीमन् त्वमसि दयितो यादवेन्द्रस्य नूनं श्रीवत्साङ्कं वयमिव भवान् ध्यायति प्रेमबद्धः । अत्युत्कण्ठः शबलहृदयोऽस्मद्विधो बाष्पधाराः स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः
( वियोगिनि ) प्रियरावपदानि भाषसे मृत सञ्जीविकयानया गिरा करवाणि किमद्य ते प्रियं वद मे वल्गितकण्ठ कोकिल
( पुष्पिताग्रा ) न चलसि न वदस्युदारबुद्धे क्षितिधर चिन्तयसे महान्तमर्थम् । अपि बत वसुदेवनन्दनाङ्घ्रिं वयमिव कामयसे स्तनैर्विधर्तुम्
( वसंततिलका ) शुष्यद्ध्रदाः करशिता बत सिन्धुपत्न्यः सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः । यद्वद् वयं मधुपतेः प्रणयावलोकम् अप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म
( शार्दूलविक्रिडित ) हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा । किं वा नश्चलसौहृदः स्मरति तं कस्माद्भजामो वयं क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम्
श्रीशुक उवाच - ( अनुष्टुप् ) इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे । क्रियमाणेन माधव्यो लेभिरे परमां गतिम्
श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः । उरुगायोरुगीतो वा पश्यन्तीनां कुतः पुनः
याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः । जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः
एवं वेदोदितं धर्मं अनुतिष्ठन् सतां गतिः । गृहं धर्मार्थकामानां मुहुश्चादर्शयत् पदम्
आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् । आसन् षोडशसाहस्रं महिष्यश्च शताधिकम्
तासां स्त्रीरत्नभूतानां अष्टौ याः प्रागुदाहृताः । रुक्मिणीप्रमुखा राजन् तत्पुत्राश्चानुपूर्वशः
एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् । यावत्य आत्मनो भार्या अमोघगतिरीश्वरः
तेषां उद्दामवीर्याणां अष्टादश महारथाः । आसन्नुदारयशसः तेषां नामानि मे शृणु
प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च । साम्बो मधुर्बृहद्भानुः चित्रभानुर्वृकोऽरुणः