निशाम्य वैष्णवं धाम पार्थः परमविस्मितः। यत्किञ्चित्पौरुषं पुंसां मेने कृष्णानुकम्पितम्
इतीदृशान्यनेकानि वीर्याणीह प्रदर्शयन्। बुभुजे विषयान्ग्राम्यानीजे चात्युर्जितैर्मखैः
प्रववर्षाखिलान्कामान्प्रजासु ब्राह्मणादिषु। यथाकालं यथैवेन्द्रो भगवान्श्रैष्ठ्यमास्थितः
हत्वा नृपानधर्मिष्ठान्घाटयित्वार्जुनादिभिः। अञ्जसा वर्तयामास धर्मं धर्मसुतादिभिः
श्रीकृष्णलीलानां संक्षेपतोऽवर्णनं, तन्महिषीणां तस्मिन् अनुरागाधिक्यं यदुवंशीयानामसख्येयत्व प्रतिपादनं च - श्रीशुक उवाच ( अनुष्टुप् ) सुखं स्वपुर्यां निवसन् द्वारकायां श्रियः पतिः । सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवैः
स्त्रीभिश्चोत्तमवेषाभिः नवयौवनकान्तिभिः । कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्द्युभिः
नित्यं सङ्कुलमार्गायां मदच्युद्भिर्मतङ्गजैः । स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलैः
उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु । निर्विशद्भृङ्गविहगैः नादितायां समन्ततः
रेमे षोडशसाहस्र पत्नीनां एकवल्लभः । तावद्विचित्ररूपोऽसौ तद्गेहेषु महर्द्धिषु
प्रोत्फुल्लोत्पलकह्लार कुमुदाम्भोजरेणुभिः । वासितामलतोयेषु कूजद्द्विजकुलेषु च
विजहार विगाह्याम्भो ह्रदिनीषु महोदयः । कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम्
उपगीयमानो गन्धर्वैः मृदङ्गपणवानकान् । वादयद्भिर्मुदा वीणां सूतमागधवन्दिभिः
सिच्यमानोऽच्युतस्ताभिः हसन्तीभिः स्म रेचकैः । प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर्यक्षराडिव
( वसंततिलका ) ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः सिञ्चन्त्य उद्धृतबृहत्कवरप्रसूनाः । कान्तं स्म रेचकजिहीर्षययोपगुह्य जातस्मरोत्स्मयलसद् वदना विरेजुः
कृष्णस्तु तत्स्तनविषत् जितकुङ्कुमस्रक् क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः । सिञ्चन् मुन्मुहुर्युवतिभिः प्रतिषिच्यमानो रेमे करेणुभिरिवेभपतिः परीतः
( अनुष्टुप् ) नटानां नर्तकीनां च गीतवाद्योपजीविनाम् । क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य च स्त्रियः
कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः । नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः
ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम् । चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः श्रृणु
महिष्य ऊचुः - ( मालिनी ) कुररि विलपसि त्वं वीतनिद्रा न शेषे स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः । वयमिव सखि कच्चिद्गाढनिर्विद्धचेता नलिननयनहासोदारलीलेक्षितेन
( वसंततिलका ) नेत्रे निमीलयसि नक्तमदृष्टबन्धुः त्वं रोरवीषि करुणं बत चक्रवाकि । दास्यं गत वयमिवाच्युतपादजुष्टां किं वा स्रजं स्पृहयसे कबरेण वोढुम्
( मिश्र ) भो भोः सदा निष्टनसे उदन्वन् अलब्धनिद्रोऽधिगतप्रजागरः । किं वा मुकुन्दापहृतात्मलाञ्छनः प्राप्तां दशां त्वं च गतो दुरत्ययाम्
( वसंततिलका ) त्वं यक्ष्मणा बलवतासि गृहीत इन्दो क्षीणस्तमो न निजदीधितिभिः क्षिणोषि । कच्चिन् गकुन्दगदितानि यथा वयं त्वं विस्मृत्य भोः स्थगितगीरुपलक्ष्यसे नः
( अनुष्टुप् ) किं न्वाचरितमस्माभिः मलयानिल तेऽप्रियम् । गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम्
( मंदाक्रान्ता ) मेघ श्रीमन् त्वमसि दयितो यादवेन्द्रस्य नूनं श्रीवत्साङ्कं वयमिव भवान् ध्यायति प्रेमबद्धः । अत्युत्कण्ठः शबलहृदयोऽस्मद्विधो बाष्पधाराः स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः
( वियोगिनि ) प्रियरावपदानि भाषसे मृत सञ्जीविकयानया गिरा करवाणि किमद्य ते प्रियं वद मे वल्गितकण्ठ कोकिल
( पुष्पिताग्रा ) न चलसि न वदस्युदारबुद्धे क्षितिधर चिन्तयसे महान्तमर्थम् । अपि बत वसुदेवनन्दनाङ्घ्रिं वयमिव कामयसे स्तनैर्विधर्तुम्
( वसंततिलका ) शुष्यद्ध्रदाः करशिता बत सिन्धुपत्न्यः सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः । यद्वद् वयं मधुपतेः प्रणयावलोकम् अप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म
( शार्दूलविक्रिडित ) हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा । किं वा नश्चलसौहृदः स्मरति तं कस्माद्भजामो वयं क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम्
श्रीशुक उवाच - ( अनुष्टुप् ) इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे । क्रियमाणेन माधव्यो लेभिरे परमां गतिम्
श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः । उरुगायोरुगीतो वा पश्यन्तीनां कुतः पुनः