श्रीशुक उवाच। एवं ब्रुवाणे वैकुण्ठे भृगुस्तन्मन्द्रया गिरा। निर्वृतस्तर्पितस्तूष्णीं भक्त्युत्कण्ठोऽश्रुलोचनः
पुनश्च सत्रमाव्रज्य मुनीनां ब्रह्मवादिनाम्। स्वानुभूतमशेषेण राजन्भृगुरवर्णयत्
तन्निशम्याथ मुनयो विस्मिता मुक्तसंशयाः। भूयांसं श्रद्दधुर्विष्णुं यतः शान्तिर्यतोऽभयम्
धर्मः साक्षाद्यतो ज्ञानं वैराग्यं च तदन्वितम्। ऐश्वर्यं चाष्टधा यस्माद्यशश्चात्ममलापहम्
मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम्। अकिञ्चनानां साधूनां यमाहुः परमां गतिम्
सत्त्वं यस्य प्रिया मूर्तिर्ब्राह्मणास्त्विष्टदेवताः। भजन्त्यनाशिषः शान्ता यं वा निपुणबुद्धयः
त्रिविधाकृतयस्तस्य राक्षसा असुराः सुराः। गुणिन्या मायया सृष्टाः सत्त्वं तत्तीर्थसाधनम्
श्रीशुक उवाच। इत्थं सारस्वता विप्रा नृणाम्संशयनुत्तये। पुरुषस्य पदाम्भोज सेवया तद्गतिं गताः
श्रीसूत उवाच। इत्येतन्मुनितनयास्यपद्मगन्ध। पीयूषं भवभयभित्परस्य पुंसः। सुश्लोकं श्रवणपुटैः पिबत्यभीक्ष्णम्। पान्थोऽध्वभ्रमणपरिश्रमं जहाति
श्रीशुक उवाच। एकदा द्वारवत्यां तु विप्रपत्न्याः कुमारकः। जातमात्रो भुवं स्पृष्ट्वा ममार किल भारत
विप्रो गृहीत्वा मृतकं राजद्वार्युपधाय सः। इदं प्रोवाच विलपन्नातुरो दीनमानसः
ब्रह्मद्विषः शठधियो लुब्धस्य विषयात्मनः। क्षत्रबन्धोः कर्मदोषात्पञ्चत्वं मे गतोऽर्भकः
हिंसाविहारं नृपतिं दुःशीलमजितेन्द्रियम्। प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्यदुःखिताः
एवं द्वितीयं विप्रर्षिस्तृतीयं त्वेवमेव च। विसृज्य स नृपद्वारि तां गाथां समगायत
तामर्जुन उपश्रुत्य कर्हिचित्केशवान्तिके। परेते नवमे बाले ब्राह्मणं समभाषत
किं स्विद्ब्रह्मंस्त्वन्निवासे इह नास्ति धनुर्धरः। राजन्यबन्धुरेते वै ब्राह्मणाः सत्रमासते
धनदारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः। ते वै राजन्यवेषेण नटा जीवन्त्यसुम्भराः
अहं प्रजाः वां भगवन्रक्षिष्ये दीनयोरिह। अनिस्तीर्णप्रतिज्ञोऽग्निं प्रवेक्ष्ये हतकल्मषः
श्रीब्राह्मण उवाच। सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः। अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत्
तत्कथं नु भवान्कर्म दुष्करं जगदीश्वरैः। त्वं चिकीर्षसि बालिश्यात्तन्न श्रद्दध्महे वयम्
श्रीअर्जुन उवाच। नाहं सङ्कर्षणो ब्रह्मन्न कृष्णः कार्ष्णिरेव च। अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः
मावमंस्था मम ब्रह्मन्वीर्यं त्र्यम्बकतोषणम्। मृत्युं विजित्य प्रधने आनेष्ये ते प्रजाः प्रभो
एवं विश्रम्भितो विप्रः फाल्गुनेन परन्तप। जगाम स्वगृहं प्रीतः पार्थवीर्यं निशामयन्
प्रसूतिकाल आसन्ने भार्याया द्विजसत्तमः। पाहि पाहि प्रजां मृत्योरित्याहार्जुनमातुरः
स उपस्पृश्य शुच्यम्भो नमस्कृत्य महेश्वरम्। दिव्यान्यस्त्राणि संस्मृत्य सज्यं गाण्डीवमाददे
न्यरुणत्सूतिकागारं शरैर्नानास्त्रयोजितैः। तिर्यगूर्ध्वमधः पार्थश्चकार शरपञ्जरम्
ततः कुमारः सञ्जातो विप्रपत्न्या रुदन्मुहुः। सद्योऽदर्शनमापेदे सशरीरो विहायसा
तदाह विप्रो विजयं विनिन्दन्कृष्णसन्निधौ। मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम्
न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः। यस्य शेकुः परित्रातुं कोऽन्यस्तदवितेश्वरः
धिगर्जुनं मृषावादं धिगात्मश्लाघिनो धनुः। दैवोपसृष्टं यो मौढ्यादानिनीषति दुर्मतिः