श्रीभगवानुवाच। शाकुनेय भवान्व्यक्तं श्रान्तः किं दूरमागतः। क्षणं विश्रम्यतां पुंस आत्मायं सर्वकामधुक्
यदि नः श्रवणायालं युष्मद्व्यवसितं विभो। भण्यतां प्रायशः पुम्भिर्धृतैः स्वार्थान्समीहते
श्रीशुक उवाच। एवं भगवता पृष्टो वचसामृतवर्षिणा। गतक्लमोऽब्रवीत्तस्मै यथापूर्वमनुष्ठितम्
श्रीभगवानुवाच। एवं चेत्तर्हि तद्वाक्यं न वयं श्रद्दधीमहि। यो दक्षशापात्पैशाच्यं प्राप्तः प्रेतपिशाचराट्
यदि वस्तत्र विश्रम्भो दानवेन्द्र जगद्गुरौ। तर्ह्यङ्गाशु स्वशिरसि हस्तं न्यस्य प्रतीयताम्
यद्यसत्यं वचः शम्भोः कथञ्चिद्दानवर्षभ। तदैनं जह्यसद्वाचं न यद्वक्तानृतं पुनः
इत्थं भगवतश्चित्रैर्वचोभिः स सुपेशलैः। भिन्नधीर्विस्मृतः शीर्ष्णि स्वहस्तं कुमतिर्न्यधात्
अथापतद्भिन्नशिराः व्रजाहत इव क्षणात्। जयशब्दो नमःशब्दः साधुशब्दोऽभवद्दिवि
मुमुचुः पुष्पवर्षाणि हते पापे वृकासुरे। देवर्षिपितृगन्धर्वा मोचितः सङ्कटाच्छिवः
मुक्तं गिरिशमभ्याह भगवान्पुरुषोत्तमः। अहो देव महादेव पापोऽयं स्वेन पाप्मना
हतः को नु महत्स्वीश जन्तुर्वै कृतकिल्बिषः। क्षेमी स्यात्किमु विश्वेशे कृतागस्को जगद्गुरौ
य एवमव्याकृतशक्त्युदन्वतः परस्य साक्षात्परमात्मनो हरेः। गिरित्रमोक्षं कथयेच्छृणोति वा विमुच्यते संसृतिभिस्तथारिभिः
अथैकोननवतितमोऽध्यायः श्रीशुक उवाच। सरस्वत्यास्तटे राजन्नृषयः सत्रमासत। वितर्कः समभूत्तेषां त्रिष्वधीशेषु को महान्
तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप। तज्ज्ञप्त्यै प्रेषयामासुः सोऽभ्यगाद्ब्रह्मणः सभाम्
न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्वपरीक्षया। तस्मै चुक्रोध भगवान्प्रज्वलन्स्वेन तेजसा
स आत्मन्युत्थितम्मन्युमात्मजायात्मना प्रभुः। अशीशमद्यथा वह्निं स्वयोन्या वारिणात्मभूः
ततः कैलासमगमत्स तं देवो महेश्वरः। परिरब्धुं समारेभे उत्थाय भ्रातरं मुदा
नैच्छत्त्वमस्युत्पथग इति देवश्चुकोप ह। शूलमुद्यम्य तं हन्तुमारेभे तिग्मलोचनः
पतित्वा पादयोर्देवी सान्त्वयामास तं गिरा। अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः
शयानं श्रिय उत्सङ्गे पदा वक्षस्यताडयत्। तत उत्थाय भगवान्सह लक्ष्म्या सतां गतिः
स्वतल्पादवरुह्याथ ननाम शिरसा मुनिम्। आह ते स्वागतं ब्रह्मन्निषीदात्रासने क्षणम्। अजानतामागतान्वः क्षन्तुमर्हथ नः प्रभो
पुनीहि सहलोकं मां लोकपालांश्च मद्गतान्। पादोदकेन भवतस्तीर्थानां तीर्थकारिणा
अद्याहं भगवंल्लक्ष्म्या आसमेकान्तभाजनम्। वत्स्यत्युरसि मे भूतिर्भवत्पादहतांहसः
श्रीशुक उवाच। एवं ब्रुवाणे वैकुण्ठे भृगुस्तन्मन्द्रया गिरा। निर्वृतस्तर्पितस्तूष्णीं भक्त्युत्कण्ठोऽश्रुलोचनः
पुनश्च सत्रमाव्रज्य मुनीनां ब्रह्मवादिनाम्। स्वानुभूतमशेषेण राजन्भृगुरवर्णयत्
तन्निशम्याथ मुनयो विस्मिता मुक्तसंशयाः। भूयांसं श्रद्दधुर्विष्णुं यतः शान्तिर्यतोऽभयम्
धर्मः साक्षाद्यतो ज्ञानं वैराग्यं च तदन्वितम्। ऐश्वर्यं चाष्टधा यस्माद्यशश्चात्ममलापहम्
मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम्। अकिञ्चनानां साधूनां यमाहुः परमां गतिम्
सत्त्वं यस्य प्रिया मूर्तिर्ब्राह्मणास्त्विष्टदेवताः। भजन्त्यनाशिषः शान्ता यं वा निपुणबुद्धयः
त्रिविधाकृतयस्तस्य राक्षसा असुराः सुराः। गुणिन्या मायया सृष्टाः सत्त्वं तत्तीर्थसाधनम्