इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः । ततोऽगाद् आश्रमं साक्षात् पितुर्द्वैपायनस्य मे
सभाजितो भगवता कृतासनपरिग्रहः । तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम्
इत्येतद् वर्णितं राजन् यन्नः प्रश्नः कृतस्त्वया । यथा ब्रह्मण्यनिर्देश्ये नीऋगुणेऽपि मनश्चरेत्
( शार्दूलविक्रीडित ) योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः । यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे वेदस्तुति नाम सप्ताशीतितमोऽध्यायः
श्रीराजोवाच। देवासुरमनुष्येसु ये भजन्त्यशिवं शिवम्। प्रायस्ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम्
एतद्वेदितुमिच्छामः सन्देहोऽत्र महान्हि नः। विरुद्धशीलयोः प्रभ्वोर्विरुद्धा भजतां गतिः
श्रीशुक उवाच। शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः। वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा
ततो विकारा अभवन्षोडशामीषु कञ्चन। उपधावन्विभूतीनां सर्वासामश्नुते गतिम्
हरिर्हि निर्गुणः साक्षात्पुरुषः प्रकृतेः परः। स सर्वदृगुपद्र ष्टा तं भजन्निर्गुणो भवेत्
निवृत्तेष्वश्वमेधेषु राजा युष्मत्पितामहः। शृण्वन्भगवतो धर्मानपृच्छदिदमच्युतम्
स आह भगवांस्तस्मै प्रीतः शुश्रूषवे प्रभुः। नृणां निःश्रेयसार्थाय योऽवतीर्णो यदोः कुले
श्रीभगवानुवाच। यस्याहमनुगृह्णामि हरिष्ये तद्धनं शनैः। ततोऽधनं त्यजन्त्यस्य स्वजना दुःखदुःखितम्
स यदा वितथोद्योगो निर्विण्णः स्याद्धनेहया। मत्परैः कृतमैत्रस्य करिष्ये मदनुग्रहम्
तद्ब्रह्म परमं सूक्ष्मं चिन्मात्रं सदनन्तकम्। विज्ञायात्मतया धीरः संसारात्परिमुच्यते
अतो मां सुदुराराध्यं हित्वान्यान्भजते जनः। ततस्त आशुतोषेभ्यो लब्धराज्यश्रियोद्धताः। मत्ताः प्रमत्ता वरदान्विस्मयन्त्यवजानते
श्रीशुक उवाच। शापप्रसादयोरीशा ब्रह्मविष्णुशिवादयः। सद्यः शापप्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युतः
अत्र चोदाहरन्तीममितिहासं पुरातनम्। वृकासुराय गिरिशो वरं दत्त्वाप सङ्कटम्
वृको नामासुरः पुत्रः शकुनेः पथि नारदम्। दृष्ट्वाशुतोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः
स आह देवं गिरिशमुपाधावाशु सिद्ध्यसि। योऽल्पाभ्यां गुणदोषाभ्यामाशु तुष्यति कुप्यति
दशास्यबाणयोस्तुष्टः स्तुवतोर्वन्दिनोरिव। ऐश्वर्यमतुलं दत्त्वा तत आप सुसङ्कटम्
इत्यादिष्टस्तमसुर उपाधावत्स्वगात्रतः। केदार आत्मक्रव्येण जुह्वानो ग्निमुखं हरम्
देवोपलब्धिमप्राप्य निर्वेदात्सप्तमेऽहनि। शिरोऽवृश्चत्सुधितिना तत्तीर्थक्लिन्नमूर्धजम्
तदा महाकारुणिको स धूर्जटिर्यथा वयं चाग्निरिवोत्थितोऽनलात्। निगृह्य दोर्भ्यां भुजयोर्न्यवारयत्तत्स्पर्शनाद्भूय उपस्कृताकृतिः
तमाह चाङ्गालमलं वृणीष्व मे यथाभिकामं वितरामि ते वरम्। प्रीयेय तोयेन नृणां प्रपद्यतामहो त्वयात्मा भृशमर्द्यते वृथा
देवं स वव्रे पापीयान्वरं भूतभयावहम्। यस्य यस्य करं शीर्ष्णि धास्ये स म्रियतामिति
तच्छ्रुत्वा भगवान्रुद्रो दुर्मना इव भारत। ॐ इति प्रहसंस्तस्मै ददेऽहेरमृतं यथा
स तद्वरपरीक्षार्थं शम्भोर्मूर्ध्नि किलासुरः। स्वहस्तं धातुमारेभे सोऽबिभ्यत्स्वकृताच्छिवः
तेनोपसृष्टः सन्त्रस्तः पराधावन्सवेपथुः। यावदन्तं दिवो भूमेः कष्ठानामुदगादुदक्
अजानन्तः प्रतिविधिं तूष्णीमासन्सुरेश्वराः। ततो वैकुण्ठमगमद्भास्वरं तमसः परम्