स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं तव पुरुषं वदन्त्यखिलशक्तिधृतोंऽशकृतम् । इति नृगतिं विविच्य कवयो निगमावपनं भवत उपासतेऽङ्घ्रिमभवम्भुवि विश्वसिताः
दुरवगमात्मतत्त्वनिगमाय तवात्ततनोः चरितमहामृताब्धिपरिवर्तपरिश्रमणाः । न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः
त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवत् चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च । न बत रमन्त्यहो असदुपासनयात्महनो यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः
निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यत् मुनय उपासते तदरयोऽपि ययुः स्मरणात् । स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः
क इह नु वेद बतावरजन्मलयोऽग्रसरं यत उदगादृषिर्यमनु देवगणा उभये । तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमवकृष्य शयीत यदा
जनिमसतः सतो मृतिमुतात्मनि ये च भिदां विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः । त्रिगुणमयः पुमानिति भिदा यदबोधकृता त्वयि न ततः परत्र स भवेदवबोधरसे
सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात् सदभिमृशन्त्यशेषमिदमात्मतयाऽत्मविदः । न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्टमिदमात्मतयावसितम्
तव परि ये चरन्त्यखिलसत्त्वनिकेततया त उत पदाक्रमन्त्यविगणय्य शिरो निर्ऋतेः । परिवयसे पशूनिव गिरा विबुधानपि तान् त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः
त्वमकरणः स्वराडखिलकारकशक्तिधरः तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः । वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः
स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो विहर उदीक्षया यदि परस्य विमुक्त ततः । न हि परमस्य कश्चिदपरो न परश्च भवेद् वियत इवापदस्य तव शून्यतुलां दधतः
अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगताः तर्हि न शास्यतेति नियमो ध्रव नेतरथा । अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत् सममनुजानतां यदमतं मतदुष्टतया
न घटत उद्भवः प्रकृतिपूरुषयोरजयोः उभययुजा भवन्त्यसुभृतो जलबुद्बुदवत् । त्वयि त इमे ततो विविधनामगुणैः परमे सरित इवार्णवे मधुनि लिल्युरशेषरसाः
नृषु तव मयया भ्रमममीष्ववगत्य भृशं त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् । कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः सृजति मुहुस्त्रिणमिरभवच्छरणेषु भयम्
विजितहृषीकवायुभिरदान्तमनस्तुरगं य इह यतन्ति यन्तुमतिलोलमुपायखिदः । व्यसनशतान्विताः समवहाय गुरोश्चरणं वणिज इवाज सन्त्यकृतकर्णधरा जलधौ
स्वजनसुतात्मदारधनधामधरासुरथैः त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे । इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विह स्वविहते स्वनिरस्तभगे
भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदाः त उत भवत्पदाम्बुजहृदोऽघभिदङ्घ्रिजलाः । दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान्
सत इदं उत्थितं सदिति चेन्ननु तर्कहतं व्यभिचरति क्व च क्व च मृषा न तथोभययुक् । व्यवहृतये विकल्प इषितोऽन्धपरम्परया भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान्
न यदिदमग्र आस न भविष्यदतो निधनाद् अनु मितमन्तरा त्वयि विभाति मृषैकरसे । अत उपमीयते द्रविणजातिविकल्पपथैः वितथमनोविलासमृतमित्यवयन्त्यबुधाः
स यदजया त्वजामनुशयीत गुणांश्च जुषन् भजति सरूपतां तदनु मृत्युमपेतभगः । त्वमुत जहासि तामहिरिव त्वचमात्तभगो महसि महीयसेऽष्टगुणितेऽपरिमेयभगः
यदि न समुद्धरन्ति यतयो हृदि कामजटा दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः । असुतृपयोगिनामुभयतोऽप्यसुखं भगवन्न् अनपगतान्तकादनधिरूढपदाद्भवतः
त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयोः गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः । अनुयुगमन्वहं सगुण गीतपरम्परया श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः
द्युपतय एव ते न ययुरन्तमनन्ततया त्वमपि यदन्तराण्डनिचया ननु सावरणाः । ख इव रजांसि वान्ति वयसा सह यत् श्रुतयः त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः
श्रीभगवानुवाच - ( अनुष्टुप् ) इत्येतद्ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् । सनन्दनमथानर्चुः सिद्धा ज्ञात्वाऽऽत्मनो गतिम्
इत्यशेषसमाम्नाय पुराणोपनिषद्रसः । समुद्धृतः पूर्वजातैः व्योमयानैर्महात्मभिः
त्वं चैतद्ब्रह्मदायाद श्रद्धयाऽऽत्मानुशासनम् । धारयंश्चर गां कामं कामानां भर्जनं नृणाम्
श्रीशुक उवाच - एवं स ऋषिणाऽऽदिष्टं गृहीत्वा श्रद्धयात्मवान् । पूर्णः श्रुतधरो राजन् आह वीरव्रतो मुनिः
श्रीनारद उवाच - नमस्तस्मै भगवते कृष्णायामलकीर्तये । यो धत्ते सर्वभूतानां अभवायोशतीः कलाः
इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः । ततोऽगाद् आश्रमं साक्षात् पितुर्द्वैपायनस्य मे
सभाजितो भगवता कृतासनपरिग्रहः । तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम्
इत्येतद् वर्णितं राजन् यन्नः प्रश्नः कृतस्त्वया । यथा ब्रह्मण्यनिर्देश्ये नीऋगुणेऽपि मनश्चरेत्