भोजनं तु वरं मन्ये कथाश्रवणकारकम् । नोपवासो वरः प्रोक्तः कथाविघ्नकरो यदि
सप्ताहव्रतिनां पुंसां नियमान् श्रुणु नारद । विष्णुदीक्षाविहीनानां नाधिकारः कथाश्रवे
ब्रह्मचर्यमधः सुप्तिः पत्रावल्यां च भोजनम् । कथासमाप्तौ भुक्तिं च कुर्यात् नित्यं कथाव्रती
द्विदलं मधु तैलं च गरिष्ठान्नं तथैव च । भावदुष्टं पर्युषितं जह्यात् नित्यं कथाव्रती
कामं क्रोधं मदं मानं मत्सरं लोभमेव च । दम्भ मोहं तथा द्वेषं दूरयेच्च कथाव्रती
वेदवैष्णवविप्राणां गुरुगोव्रतिनां तथा । स्त्रीराजमहतां निन्दां वर्जयेत् यः कथाव्रती
रजस्वला अन्त्यज म्लेच्छ पतित व्रात्यकैस्तथा । द्विजद्विड् वेदबाह्यैश्च न वदेत् यः कथाव्रती
सत्यं शौचं दयां मौनं आर्जवं विनयं तथा । उदारमानसं तद्वत् एवं कुर्यात् कथाव्रती
दरिद्रश्च क्षयी रोगी निर्भाग्यः पापकर्मवान् । अनपत्यो मोक्षकामः श्रुणुयाच्च कथामिमाम्
अपुष्पा काकवन्ध्या च वन्ध्या या च मृतार्भका । स्रवत् गर्भा च या नारी तया श्राव्या प्रयत्नतः
एतेषु विधिना श्रावे तदक्षयतरं भवेत् । अत्युत्तमा कथा दिव्या कोटियज्ञफलप्रदा
एवं कृत्वा व्रतविधिं उद्यापनं अथाचरेत् । जन्माष्टमी व्रतमिव कर्तव्यं फलकांक्षिभिः
अकिंचनेषु भक्तेषु प्रायो नोद्यापनाग्रहः । श्रवणेनैव पूतास्ते निष्कामा वैष्णवा यतः
एवं नगाहयज्ञेऽस्मिन् समाप्ते श्रोतृभिस्तदा । पुस्तकस्य च वक्तुश्च पूजा कार्यातिभक्तितः
प्रसादतुलसीमाला श्रोतृभ्यश्चाथ दीयताम् । मृदंगतालललितं कर्तव्यं कीर्तनं ततः
जयशब्दं नमःशब्दं शंखशब्दं च कारयेत् । विप्रेभ्यो याचकेभ्यश्च वित्तं अन्नं च दीयताम्
विरक्तश्चेत् भवेत् श्रोता गीता वाद्या परेऽहनि । गृहस्थश्चेत् तदा होमः कर्तव्यः कर्मशान्तये
प्रतिश्लोकं तु जुहुयात् विधिना दशमस्य च । पायसं मधु सर्पिश्च तिलान् आदिकसंयुतम्
अथवा हवनं कुर्याद् गायत्र्या सुसमाहितः । तन्मयत्वात् पुराणस्य परमस्य च तत्त्वतः
होमाशक्तौ बुधो हौम्यं दद्यात् तत्फल सिद्धये । नानाच्छिद्रनिरोधार्थं न्यूनताधिकतानयोः
दोषयोः प्रशमार्थं च पठेत् नामसहस्रकम् । तेन स्यात् सफलं सर्वं नास्त्यस्मादधिकं यतः
द्वादश ब्राह्मणान् पश्चात् भोजयेत् मधुपायसैः । दद्यात् सुवर्णं धेनुं च व्रतपूर्णत्वहेतवे
शक्तौ पलत्रयमितं स्वर्णसिंहं विधाय च । तत्रास्य पुस्तकं स्थाप्यं लिखितं ललिताक्षरम्
संपूज्य आवाहनाद्यैः तद् उपचारैः सदक्षिणम् । वस्त्रभूषण गन्धाद्यैः पूजिताय यतात्मने
आचार्याय सुधीर्दत्त्वा मुक्तः स्याद् भवबंधनैः । एवं कृते विधाने च सर्वपापनिवारणे
फलदं स्यात् पुराणं तु श्रीमद्भागवतं शुभम् । धर्मकामार्थमोक्षाणां साधनं स्यात् न संशयः
कुमारा ऊचुः - इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि । श्रीमद्भागवतेनैव भुक्तिमुक्ति करे स्थिते
सूत उवाच - इत्युक्त्वा ते महात्मानः प्रोचुर्भागवतीं कथाम् । सर्वपापहरां पुण्यां भुक्तिमुक्तिप्रदायिनीम्
श्रृण्वतां सर्वभूतानां सप्ताहं नियतात्मनाम् । यथाविधि ततो देवं तुष्टुवुः पुरुषोत्तमम्
तदन्ते ज्ञानवैराग्य-भक्तीनां पुष्टता परा । तारुण्यं परमं चाभूत् सर्वभूतमनोहरम्