तस्माद् ब्रह्मऋषीनेतान् ब्रह्मन् मच्छ्रद्धयार्चय । एवं चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभिः
श्रीशुक उवाच - स इत्थं प्रभुनादिष्टः सहकृष्णान् द्विजोत्तमान् । आराध्यैकात्मभावेन मैथिलश्चाप सद्गतिम्
एवं स्वभक्तयो राजन् भगवान् भक्तभक्तिमान् । उषित्वाऽऽदिश्य सन्मार्गं पुनर्द्वारवतीमगात्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रुतदेवानुग्रहो नाम षडशीतितमोऽध्यायः
वेदस्तुति - श्रीपरीक्षिदुवाच - ( अनुष्टुप् ) ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः । कथं चरन्ति श्रुतयः साक्षात् सदसतः परे
श्रीशुक उवाच - बुद्धीन्द्रियमनःप्राणान् जनानां असृजत् प्रभुः । मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च
सैषा ह्युपनिषद् ब्राह्मी पूर्वेशां पूर्वजैर्धृता । श्र्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चनः
अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् । नारदस्य च संवादं ऋषेर्नारायणस्य च
एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः । सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम्
यो वै भारतवर्षेऽस्मिन् क्शेमाय स्वस्तये नृणाम् । धर्मज्ञानशमोपेतं आकल्पादास्थितस्तपः
तत्रोपविष्टं ऋषिभिः कलापग्रामवासिभिः । परीतं प्रणतोऽपृच्छद् इदमेव कुरूद्वह
तस्मै ह्यवोचद्भगवान् ऋषीणां श्रृणतामिदम् । यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम्
श्रीभगवानुवाच - स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत् पुरा । तत्रस्थानां मानसानां मुनीनां ऊर्ध्वरेतसाम्
श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् । ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते । तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि
तुल्यश्रुततपःशीलाः तुल्यस्वीयारिमध्यमाः । अपि चक्रुः प्रवचनं एकं शुश्रूषवोऽपरे
श्रीसनन्दन उवाच - स्वसृष्टमिदमापीय शयानं सह शक्तिभिः । तदन्ते बोधयां चक्रुः तल्लिङ्गैः श्रुतयः परम्
यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः । प्रत्यूषेऽभेत्य सुश्लोकैः बोधयन्त्यनुजीविनः
श्रीश्रुतय ऊचुः - ( अवितथ गाथा - पुढील, म्हणजे १४ ते ४१ या श्लोकांना वेदस्तुति म्हणतात ) जय जय जह्यजामजित दोषगृभीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः । अगजगदोकसामखिलशक्त्यवबोधक ते क्वचिदजयाऽऽत्मना च चरतोऽनुचरेन्निगमः
बृहदुपलब्धमेतदवयन्त्यवशेषतया यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम्
इति तव सूरयस्त्र्यधिपतेऽखिललोकमल क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः । किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम्
दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा महदहमादयोऽण्डमसृजन् यदनुग्रहतः पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः सदसतः परं त्वमथ यदेष्ववशेषमृतम्
उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः परिसरपद्धतिं हृदयमारुणयो दहरम् । तत उदगादनन्त तव धाम शिरः परमं पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे
स्वकृतविचित्रयोनिषु विशन्निव हेतुतया तरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः । अथ वितथास्वमूष्ववितथां तव धाम समं विरजधियोऽनुयन्त्यभिविपण्यव एकरसम्
स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं तव पुरुषं वदन्त्यखिलशक्तिधृतोंऽशकृतम् । इति नृगतिं विविच्य कवयो निगमावपनं भवत उपासतेऽङ्घ्रिमभवम्भुवि विश्वसिताः
दुरवगमात्मतत्त्वनिगमाय तवात्ततनोः चरितमहामृताब्धिपरिवर्तपरिश्रमणाः । न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः
त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवत् चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च । न बत रमन्त्यहो असदुपासनयात्महनो यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः
निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यत् मुनय उपासते तदरयोऽपि ययुः स्मरणात् । स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः
क इह नु वेद बतावरजन्मलयोऽग्रसरं यत उदगादृषिर्यमनु देवगणा उभये । तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमवकृष्य शयीत यदा
जनिमसतः सतो मृतिमुतात्मनि ये च भिदां विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः । त्रिगुणमयः पुमानिति भिदा यदबोधकृता त्वयि न ततः परत्र स भवेदवबोधरसे
सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात् सदभिमृशन्त्यशेषमिदमात्मतयाऽत्मविदः । न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्टमिदमात्मतयावसितम्