हृदिस्थोऽप्यतिदूरस्थः कर्मविक्षिप्तचेतसाम् । आत्मशक्तिभिरग्राह्योऽपि अन्त्युपेतगुणात्मनाम्
( वंशस्था ) नमोऽस्तु तेऽध्यात्मविदां परात्मने अनात्मने स्वात्मविभक्तमृत्यवे । सकारणाकारणलिङ्गमीयुषे स्वमाययासंवृतरुद्धदृष्टये
( अनुष्टुप् ) स त्वं शाधि स्वभृत्यान् नः किं देव करवामहे । एतदन्तो नृणां क्लेशो यद्भवानक्षिगोचरः
श्रीशुक उवाच - तदुक्तमित्युपाकर्ण्य भगवान् प्रणतार्तिहा । गृहीत्वा पाणिना पाणिं प्रहसन् तमुवाच ह
श्रीभगवानुवाच - ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्यमून् मुनीन् । सञ्चरन्ति मया लोकान् पुनन्तः पादरेणुभिः
देवाः क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः । शनैः पुनन्ति कालेन तदप्यर्हत्तमेक्षया
ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनामिह । तपसा विद्यया तुष्ट्या किमु मत्कलया युतः
न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम् । सर्ववेदमयो विप्रः सर्वदेवमयो ह्यहम्
दुष्प्रज्ञा अविदित्वैवं अवजानन्त्यसूयवः । गुरुं मां विप्रमात्मानं अर्चादाविज्यदृष्टयः
चराचरमिदं विश्वं भावा ये चास्य हेतवः । मद् रूपाणीति चेतस्य आधत्ते विप्रो मदीक्षया
तस्माद् ब्रह्मऋषीनेतान् ब्रह्मन् मच्छ्रद्धयार्चय । एवं चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभिः
श्रीशुक उवाच - स इत्थं प्रभुनादिष्टः सहकृष्णान् द्विजोत्तमान् । आराध्यैकात्मभावेन मैथिलश्चाप सद्गतिम्
एवं स्वभक्तयो राजन् भगवान् भक्तभक्तिमान् । उषित्वाऽऽदिश्य सन्मार्गं पुनर्द्वारवतीमगात्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रुतदेवानुग्रहो नाम षडशीतितमोऽध्यायः
वेदस्तुति - श्रीपरीक्षिदुवाच - ( अनुष्टुप् ) ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः । कथं चरन्ति श्रुतयः साक्षात् सदसतः परे
श्रीशुक उवाच - बुद्धीन्द्रियमनःप्राणान् जनानां असृजत् प्रभुः । मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च
सैषा ह्युपनिषद् ब्राह्मी पूर्वेशां पूर्वजैर्धृता । श्र्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चनः
अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् । नारदस्य च संवादं ऋषेर्नारायणस्य च
एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः । सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम्
यो वै भारतवर्षेऽस्मिन् क्शेमाय स्वस्तये नृणाम् । धर्मज्ञानशमोपेतं आकल्पादास्थितस्तपः
तत्रोपविष्टं ऋषिभिः कलापग्रामवासिभिः । परीतं प्रणतोऽपृच्छद् इदमेव कुरूद्वह
तस्मै ह्यवोचद्भगवान् ऋषीणां श्रृणतामिदम् । यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम्
श्रीभगवानुवाच - स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत् पुरा । तत्रस्थानां मानसानां मुनीनां ऊर्ध्वरेतसाम्
श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् । ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते । तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि
तुल्यश्रुततपःशीलाः तुल्यस्वीयारिमध्यमाः । अपि चक्रुः प्रवचनं एकं शुश्रूषवोऽपरे
श्रीसनन्दन उवाच - स्वसृष्टमिदमापीय शयानं सह शक्तिभिः । तदन्ते बोधयां चक्रुः तल्लिङ्गैः श्रुतयः परम्
यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः । प्रत्यूषेऽभेत्य सुश्लोकैः बोधयन्त्यनुजीविनः
श्रीश्रुतय ऊचुः - ( अवितथ गाथा - पुढील, म्हणजे १४ ते ४१ या श्लोकांना वेदस्तुति म्हणतात ) जय जय जह्यजामजित दोषगृभीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः । अगजगदोकसामखिलशक्त्यवबोधक ते क्वचिदजयाऽऽत्मना च चरतोऽनुचरेन्निगमः
बृहदुपलब्धमेतदवयन्त्यवशेषतया यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम्
इति तव सूरयस्त्र्यधिपतेऽखिललोकमल क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः । किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम्