इत्युपामन्त्रितो राज्ञा भगवान् लोकभावनः । उवास कुर्वन् कल्याणं मिथिलानरयोषिताम्
श्रुतदेवोऽच्युतं प्राप्तं स्वगृहाञ्जनको यथा । नत्वा मुनीन् सुसंहृष्टो धुन्वन् वासो ननर्त ह
तृणपीठबृषीष्वेतान् आनीतेषूपवेश्य सः । स्वागतेनाभिनन्द्याङ्घ्रीन् सभार्योऽवनिजे मुदा
तदम्भसा महाभाग आत्मानं सगृहान्वयम् । स्नापयां चक्र उद्धर्षो लब्धसर्वमनोरथः
( मिश्र ) फलार्हणोशीरशिवामृताम्बुभिः मृदा सुरभ्या तुलसीकुशाम्बुजैः । आराधयामास यथोपपन्नया सपर्यया सत्त्वविवर्धनान्धसा
स तर्कयामास कुतो ममान्वभूद् गृहान्धकुपे पतितस्य सङ्गमः । यः सर्वतीर्थास्पदपादरेणुभिः कृष्णेन चास्यात्मनिकेतभूसुरैः
( अनुष्टुप् ) सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः । सभार्यस्वजनापत्य उवाचाङ्घ्र्यभिमर्शनः
श्रुतदेव उवाच - नाद्य नो दर्शनं प्राप्तः परं परमपूरुषः । यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्यात्मसत्तया
यथा शयानः पुरुषो मनसैवात्ममायया । सृष्ट्वा लोकं परं स्वाप्नं अनुविश्यावभासते
श्रृण्वतां गदतां शश्वद् अर्चतां त्वाभिवन्दताम् । नृणां संवदतामन्तः हृदि भास्यमलात्मनाम्
हृदिस्थोऽप्यतिदूरस्थः कर्मविक्षिप्तचेतसाम् । आत्मशक्तिभिरग्राह्योऽपि अन्त्युपेतगुणात्मनाम्
( वंशस्था ) नमोऽस्तु तेऽध्यात्मविदां परात्मने अनात्मने स्वात्मविभक्तमृत्यवे । सकारणाकारणलिङ्गमीयुषे स्वमाययासंवृतरुद्धदृष्टये
( अनुष्टुप् ) स त्वं शाधि स्वभृत्यान् नः किं देव करवामहे । एतदन्तो नृणां क्लेशो यद्भवानक्षिगोचरः
श्रीशुक उवाच - तदुक्तमित्युपाकर्ण्य भगवान् प्रणतार्तिहा । गृहीत्वा पाणिना पाणिं प्रहसन् तमुवाच ह
श्रीभगवानुवाच - ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्यमून् मुनीन् । सञ्चरन्ति मया लोकान् पुनन्तः पादरेणुभिः
देवाः क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः । शनैः पुनन्ति कालेन तदप्यर्हत्तमेक्षया
ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनामिह । तपसा विद्यया तुष्ट्या किमु मत्कलया युतः
न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम् । सर्ववेदमयो विप्रः सर्वदेवमयो ह्यहम्
दुष्प्रज्ञा अविदित्वैवं अवजानन्त्यसूयवः । गुरुं मां विप्रमात्मानं अर्चादाविज्यदृष्टयः
चराचरमिदं विश्वं भावा ये चास्य हेतवः । मद् रूपाणीति चेतस्य आधत्ते विप्रो मदीक्षया
तस्माद् ब्रह्मऋषीनेतान् ब्रह्मन् मच्छ्रद्धयार्चय । एवं चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभिः
श्रीशुक उवाच - स इत्थं प्रभुनादिष्टः सहकृष्णान् द्विजोत्तमान् । आराध्यैकात्मभावेन मैथिलश्चाप सद्गतिम्
एवं स्वभक्तयो राजन् भगवान् भक्तभक्तिमान् । उषित्वाऽऽदिश्य सन्मार्गं पुनर्द्वारवतीमगात्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रुतदेवानुग्रहो नाम षडशीतितमोऽध्यायः
वेदस्तुति - श्रीपरीक्षिदुवाच - ( अनुष्टुप् ) ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः । कथं चरन्ति श्रुतयः साक्षात् सदसतः परे
श्रीशुक उवाच - बुद्धीन्द्रियमनःप्राणान् जनानां असृजत् प्रभुः । मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च
सैषा ह्युपनिषद् ब्राह्मी पूर्वेशां पूर्वजैर्धृता । श्र्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चनः
अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् । नारदस्य च संवादं ऋषेर्नारायणस्य च
एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः । सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम्
यो वै भारतवर्षेऽस्मिन् क्शेमाय स्वस्तये नृणाम् । धर्मज्ञानशमोपेतं आकल्पादास्थितस्तपः