सापि तं चकमे वीक्ष्य नारीणां हृदयंगमम् । हसन्ती व्रीडितापाङ्गी तन्न्यस्तहृदयेक्षणा
तां परं समनुध्यायन् नन्तरं प्रेप्सुरर्जुनः । न लेभे शं भ्रमच्चित्तः कामेनातिबलीयसा
महत्यां देवयात्रायां रथस्थां दुर्गनिर्गतां । जहारानुमतः पित्रोः कृष्णस्य च महारथः
रथस्थो धनुरादाय शूरांश्चारुन्धतो भटान् । विद्राव्य क्रोशतां स्वानां स्वभागं मृगराडिव
तच्छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः । गृहीतपादः कृष्णेन सुहृद्भिश्चानुसाम्यत
प्राहिणोत्पारिबर्हाणि वरवध्वोर्मुदा बलः । महाधनोपस्करेभ रथाश्वनरयोषितः
श्रीशुक उवाच - कृष्णस्यासीद् द्विजश्रेष्ठः श्रुतदेव इति श्रुतः । कृष्णैकभक्त्या पूर्णार्थः शान्तः कविरलम्पटः
स उवास विदेहेषु मिथिलायां गृहाश्रमी । अनीहयागताहार्य निर्वर्तितनिजक्रियः
यात्रामात्रं त्वहरहः दैवाद् उपनमत्युत । नाधिकं तावता तुष्टः क्रिया चक्रे यथोचिताः
तथा तद्राष्ट्रपालोऽङ्ग बहुलाश्व इति श्रुतः । मैथिलो निरहम्मान उभावप्यच्युतप्रियौ
तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् । आरुह्य साकं मुनिभिः विदेहान् प्रययौ प्रभुः
नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणिः । अहं बृहस्पतिः कण्वो मैत्रेयश्च्यवनादयः
तत्र तत्र तमायान्तं पौरा जानपदा नृप । उपतस्थुः सार्घ्यहस्ता ग्रहैः सूर्यमिवोदितम्
( वसंततिलका ) आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य पाञ्चालकुन्तिमधुकेकयकोशलार्णाः । अन्ये च तन्मुखसरोजमुदारहास स्निग्धेक्षणं नृप पपुर्दृशिभिर्नृनार्यः
तेभ्यः स्ववीक्षणविनष्टतमिस्रदृग्भ्यः क्षेमं त्रिलोकगुरुरर्थदृशं च यच्छन् । श्रृणवन् दिगन्तधवलं स्वयशोऽशुभघ्नं गीतं सुरैर्नृभिरगात् शनकैर्विदेहान्
( अनुष्टुप् ) तेऽच्युतं प्राप्तमाकर्ण्य पौरा जानपदा नृप । अभीयुर्मुदितास्तस्मै गृहीतार्हणपाणयः
दृष्ट्वा त उत्तमःश्लोकं प्रीत्युत्फुलाननाशयाः । कैर्धृताञ्जलिभिर्नेमुः श्रुतपूर्वान् तथा मुनीन्
स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्गुरुम् । मैथिलः श्रुतदेवश्च पादयोः पेततुः प्रभोः
न्यमन्त्रयेतां दाशार्हं आतिथ्येन सह द्विजैः । मैथिलः श्रुतदेवश्च युगपत् संहताञ्जली
भगवान् तदभिप्रेत्य द्वयोः प्रियचिकीर्षया । उभयोराविशद् गेहं उभाभ्यां तदलक्षितः
श्रोतुमप्यसतां दूरान् जनकः स्वगृहागतान् । आनीतेष्वासनाग्र्येषु सुखासीनान् महामनाः
प्रवृद्धभक्त्या उद्धर्ष हृदयास्राविलेक्षणः । नत्वा तदङ्घ्रीन् प्रक्षाल्य तदपो लोकपावनीः
सकुटुम्बो वहन्मूर्ध्ना पूजयां चक्र ईश्वरान् । गन्धमाल्याम्बराकल्प धूपदीपार्घ्यगोवृषैः
वाचा मधुरया प्रीणन् इदमाहान्नतर्पितान् । पादावङ्कगतौ विष्णोः संस्पृशञ्छनकैर्मुदा
श्रीबहुलाश्व उवाच - भवान्हि सर्वभूतानां आत्मा साक्षी स्वदृग् विभो । अथ नस्त्वत्पदाम्भोजं स्मरतां दर्शनं गतः
स्ववचस्तदृतं कर्तुं अस्मद्दृग्गोचरो भवान् । यदात्थैकान्तभक्तान् मे नानन्तः श्रीरजः प्रियः
को नु त्वच्चरणाम्भोजं एवंविद् विसृजेत् पुमान् । निष्किञ्चनानां शान्तानां मुनीनां यस्त्वमात्मदः
योऽवतीर्य यदोर्वंशे नृणां संसरतामिह । यशो वितेने तच्छान्त्यै त्रैलोक्यवृजिनापहम्
नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे । नारायणाय ऋषये सुशान्तं तप ईयुषे
दिनानि कतिचिद् भूमन् गृहान् नो निवस द्विजैः । समेतः पादरजसा पुनीहीदं निमेः कुलम्