तस्यर्त्विजो महाराज रत्नकौशेयवाससः । ससदस्या विरेजुस्ते यथा वृत्रहणोऽध्वरे
तदा रामश्च कृष्णश्च स्वैः स्वैः बन्धुभिरन्वितौ । रेजतुः स्वसुतैर्दारैः जीवेशौ स्वविभूतिभिः
ईजेऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणैः । प्राकृतैर्वैकृतैर्यज्ञैः द्रव्यज्ञानक्रियेश्वरम्
अथर्त्विग्भ्योऽददात्काले यथाम्नातं स दक्षिणाः । स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधनाः
पत्नीसंयाजावभृथ्यैः चरित्वा ते महर्षयः । सस्नू रामह्रदे विप्रा यजमानपुरःसराः
स्नातोऽलङ्कारवासांसि वन्दिभ्योऽदात्तथा स्त्रियः । ततः स्वलङ्कृतो वर्णान् आश्वभ्योऽन्नेन पूजयत्
बन्धून् सदारान् ससुतान् पारिबर्हेण भूयसा । विदर्भकोशलकुरून् काशिकेकय सृञ्जयान्
सदस्यर्त्विक्सुरगणान् नृभूतपितृचारणान् । श्रीनिकेतमनुज्ञाप्य शंसन्तः प्रययुः क्रतुम्
धृतराष्ट्रोऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ । नारदो भगवान् व्यासः सुहृत्संबंधिबांधवाः
बन्धून्परिष्वज्य यदून् सौहृदाक्लिन्नचेतसः । ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे जनाः
नन्दस्तु सह गोपालैः बृहत्या पूजयार्चितः । कृष्णरामोग्रसेनाद्यैः न्यवात्सीद्बन्धुवत्सलः
वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम् । सुहृद्वृतः प्रीतमना नन्दमाह करे स्पृशन्
श्रीवसुदेव उवाच - भ्रातरीशकृतः पाशो नृनां यः स्नेहसंज्ञितः । तं दुस्त्यजमहं मन्ये शूराणामपि योगिनाम्
अस्मास्वप्रतिकल्पेयं यत्कृताज्ञेषु सत्तमैः । मैत्र्यर्पिताफला चापि न निवर्तेत कर्हिचित्
प्रागकल्पाच्च कुशलं भ्रातर्वो नाचराम हि । अधुना श्रीमदान्धाक्षा न पश्यामः पुरः सतः
मा राज्यश्रीरभूत्पुंसः श्रेयस्कामस्य मानद । स्वजनानुत बन्धून् वा न पश्यति ययान्धदृक्
श्रीशुक उवाच - एवं सौहृदशैथिल्य चित्त आनकदुन्दुभिः । रुरोद तत्कृतां मैत्रीं स्मरन् अश्रुविलोचनः
नन्दस्तु सख्युः प्रियकृत् प्रेम्णा गोविन्दरामयोः । अद्य श्व इति मासांस्त्रीन् यदुभिर्मानितोऽवसत्
ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः । परार्ध्याभरणक्षौम नानानर्घ्यपरिच्छदैः
वसुदेवोग्रसेनाभ्यां कृष्णोद्धवबलादिभिः । दत्तमादाय पारिबर्हं यापितो यदुभिर्ययौ
नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे । मनः क्षिप्तं पुनर्हर्तुं अनीशा मथुरां ययुः
बन्धुषु प्रतियातेषु वृष्णयः कृष्णदेवताः । वीक्ष्य प्रावृषमासन्नाद् ययुर्द्वारवतीं पुनः
जनेभ्यः कथयां चक्रुः यदुदेवमहोत्सवम् । यदासीत् तीर्थयात्रायां सुहृत् संदर्शनादिकम्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे तीर्थयात्रानुवर्णनं नाम चतुरशीतितमोऽध्यायः
सुभद्राहरणं श्रीकृष्णस्य मिथिलागमनं तत्र बहुलाश्वश्रुतदेवयोः सद्मनि सकृदेव प्रवेशः - श्रीराजोवाच - ( अनुष्टुप् ) ब्रह्मन् वेदितुमिच्छामः स्वसारं रामकृष्णयोः । यथोपयेमे विजयो या ममासीत् पितामही
श्रीशुक उवाच - अर्जुनस्तीर्थयात्रायां पर्यटन् अवनीं प्रभुः । गतः प्रभासमश्रृणोन् मातुलेयीं स आत्मनः
दुर्योधनाय रामस्तां दास्यतीति न चापरे । तल्लिप्सुः स यतिर्भूत्वा त्रिदण्डी द्वारकामगात्
तत्र वै वार्षिकान् मासान् अवात्सीत् स्वार्थसाधकः । पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता च सः
एकदा गृहमानीय आतिथ्येन निमंत्र्य तम् । श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल
सोऽपश्यत्तत्र महतीं कन्यां वीरमनोहराम् । प्रीत्युत्फुल्लेक्षणस्तस्यां भावक्षुब्धं मनो दधे