( अनुष्टुप् ) ब्रह्म ते हृदयं शुक्लं तपःस्वाध्यायसंयमैः । यत्रोपलब्धं सद्व्यक्तं अव्यक्तं च ततः परम्
तस्माद् ब्रह्मकुलं ब्रह्मन् शास्त्रयोनेस्त्वमात्मनः । सभाजयसि सद्धाम तद् ब्रह्मण्याग्रणीर्भवान्
अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः । त्वया सङ्गम्य सद्गत्या यदन्तः श्रेयसां परः
नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । स्वयोगमाययाच्छन्न महिम्ने परमात्मने
न यं विदन्त्यमी भूपा एकारामाश्च वृष्णयः । मायाजवनिकाच्छन्नं आत्मानं कालमीश्वरम्
यथा शयानः पुरुष आत्मानं गुणतत्त्वदृक् । नाममात्रेन्द्रियाभातं न वेद रहितं परम्
एवं त्वा नाममात्रेषु विषयेष्विन्द्रियेहया । मायया विभ्रमच्चित्तो न वेद स्मृत्युपप्लवात्
( वसंततिलका ) तस्याद्य ते ददृशिमाङ्घ्रिमघौघमर्ष तीर्थास्पदं हृदि कृतं सुविपक्वयोगैः । उत्सिक्तभक्त्युपहताशय जीवकोशा आपुर्भवद्गतिमथानुगृहान भक्तान्
श्रीशुक उवाच - ( अनुष्टुप् ) इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् । राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः
तद् वीक्ष्य तानुपव्रज्य वसुदेवो महायशाः । प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रितः
श्रीवसुदेव उवाच - नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ । कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम्
श्रीनारद उवाच - नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया । कृष्णं मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः
सन्निकर्षोऽत्र मर्त्यानां अनादरणकारणम् । गाङ्गं हित्वा यथान्याम्भः तत्रत्यो याति शुद्धये
यस्यानुभूतिः कालेन लयोत्पत्त्यादिनास्य वै । स्वतोऽन्यस्माच्च गुणतो न कुतश्चन रिष्यति
( वसंततिलका ) तं क्लेशकर्मपरिपाकगुणप्रवाहैः अव्याहतानुभवमीश्वरमद्वितीयम् । प्राणादिभिः स्वविभवैरुपगूढमन्यो मन्येत सूर्यमिव मेघहिमोपरागैः
( अनुष्टुप् ) अथोचुर्मुनयो राजन् आभाष्यानकदुंदुभिम् । सर्वेषां श्रृणतां राज्ञां तथैवाच्युतरामयोः
कर्मणा कर्मनिर्हार एष साधुनिरूपितः । यच्छ्रद्धया यजेद् विष्णुं सर्वयज्ञेश्वरं मखैः
चित्तस्योपशमोऽयं वै कविभिः शास्त्रचक्षुषा । दर्शितः सुगमो योगो धर्मश्चात्ममुदावहः
अयं स्वस्त्ययनः पन्था द्विजातेर्गृहमेधिनः । यच्छ्रद्धयाऽऽप्तवित्तेन शुक्लेनेज्येत पूरुषः
वित्तैषणां यज्ञदानैः गृहैर्दारसुतैषणाम् । आत्मलोकैषणां देव कालेन विसृजेद्बुधः । ग्रामे त्यक्तैषणाः सर्वे ययुर्धीरास्तपोवनम्
ऋणैस्त्रिभिर्द्विजो जातो देवर्षिपितॄणां प्रभो । यज्ञाध्ययनपुत्रैस्तानि अनिस्तीर्य त्यजन्पतेत्
त्वं त्वद्य मुक्तो द्वाभ्यां वै ऋषिपित्रोर्महामते । यज्ञैर्देवर्णमुन्मुच्य निरृणोऽशरणो भव
वसुदेव भवान्नूनं भक्त्या परमया हरिम् । जगतामीश्वरं प्रार्चः स यद्वां पुत्रतां गतः
श्रीशुक उवाच - इति तद्वचनं श्रुत्वा वसुदेवो महामनाः । तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नाऽऽनम्य प्रसाद्य च
त एनमृषयो राजन् वृता धर्मेण धार्मिकम् । तस्मिन् अयाजयन् क्षेत्रे मखैरुत्तमकल्पकैः
तद्दीक्षायां प्रवृत्तायां वृष्णयः पुष्करस्रजः । स्नाताः सुवाससो राजन् राजानः सुष्ठ्वलङ्कृताः
तन्महिष्यश्च मुदिता निष्ककण्ठ्यः सुवाससः । दीक्षाशालामुपाजग्मुः आलिप्ता वस्तुपाणयः
नेदुर्मृदङ्गपटह शङ्खभेर्यानकादयः । ननृतुर्नटनर्तक्यः तुष्टुवुः सूतमागधाः । जगुः सुकण्ठ्यो गन्धर्व्यः संगीतं सहभर्तृकाः
तमभ्यषिञ्चन् विधिवद् अक्तं अभ्यक्तमृत्विजः । पत्नीभिरष्टादशभिः सोमराजमिवोडुभिः
ताभिर्दुकूलवलयैः हारनूपुरकुण्डलैः । स्वलङ्कृताभिर्विबभौ दीक्षितोऽजिनसंवृतः