मां तावद्रथमारोप्य हयरत्नचतुष्टयम्। शार्ङ्गमुद्यम्य सन्नद्धस्तस्थावाजौ चतुर्भुजः
दारुकश्चोदयामास काञ्चनोपस्करं रथम्। मिषतां भूभुजां राज्ञि मृगाणां मृगराडिव
तेऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन। संयत्ता उद्धृतेष्वासा ग्रामसिंहा यथा हरिम्
ते शार्ङ्गच्युतबाणौघैः कृत्तबाह्वङ्घ्रिकन्धराः। निपेतुः प्रधने केचिदेके सन्त्यज्य दुद्रुवुः
ततः पुरीं यदुपतिरत्यलङ्कृतां। रविच्छदध्वजपटचित्रतोरणाम्। कुशस्थलीं दिवि भुवि चाभिसंस्तुतां। समाविशत्तरणिरिव स्वकेतनम्
पिता मे पूजयामास सुहृत्सम्बन्धिबान्धवान्। महार्हवासोऽलङ्कारैः शय्यासनपरिच्छदैः
दासीभिः सर्वसम्पद्भिर्भटेभरथवाजिभिः। आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः
आत्मारामस्य तस्येमा वयं वै गृहदासिकाः। सर्वसङ्गनिवृत्त्याद्धा तपसा च बभूविम
महिष्य ऊचुः। भौमं निहत्य सगणं युधि तेन रुद्धा। ज्ञात्वाथ नः क्षितिजये जितराजकन्याः। निर्मुच्य संसृतिविमोक्षमनुस्मरन्तीः। पादाम्बुजं परिणिनाय य आप्तकामः
न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत। वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम्
कामयामह एतस्य श्रीमत्पादरजः श्रियः। कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः
व्रजस्त्रियो यद्वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः। गावश्चारयतो गोपाः पदस्पर्शं महात्मनः
ऋषिगणकृता भगवत्स्तुतिः; वसुदेवयज्ञोत्सवः; बन्धूनां प्रस्थापनादिकं च - श्रीशुक उवाच - ( वसंततिलका ) श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी माधव्यथ क्षितिपपत्न्य उत स्वगोप्यः । कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः
( अनुष्टुप् ) इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर्नृषु । आययुर्मुनयस्तत्र कृष्णरामदिदृक्षया
द्वैपायनो नारदश्च च्यवनो देवलोऽसितः । विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः
रामः सशिष्यो भगवान् वसिष्ठो गालवो भृगुः । पुलस्त्यः कश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पतिः
द्वितस्त्रितश्चैकतश्च ब्रह्मपुत्रास्तथाङ्गिराः । अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे
तान्दृष्ट्वा सहसोत्थाय प्रागासीना नृपादयः । पाण्डवाः कृष्णरामौ च प्रणेमुर्विश्ववन्दितान्
तान् आनर्चुर्यथा सर्वे सहरामोऽच्युतोऽर्चयत् । स्वागतासनपाद्यार्घ्य माल्यधूपानुलेपनैः
उवाच सुखमासीनान् भगवान् धर्मगुप्तनुः । सदसस्तस्य महतो यतवाचोऽनुश्रृण्वतः
श्रीभगवानुवाच - अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम् । देवानामपि दुष्प्रापं यद् योगेश्वरदर्शनम्
किं स्वल्पतपसां नॄणां अर्चायां देवचक्षुषाम् । दर्शनस्पर्शनप्रश्न प्रह्वपादार्चनादिकम्
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन दर्शनादेव साधवः
( मिश्र ) नाग्निर्न सूर्यो न च चन्द्रतारका न भूर्जलं खं श्वसनोऽथ वाङ्मनः । उपासिता भेदकृतो हरन्त्यघं विपश्चितो घ्नन्ति मुहूर्तसेवया
यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः । यत्तीर्थबुद्धिः सलिले न कर्हिचित् जनेष्वभिज्ञेषु स एव गोखरः
श्रीशुक उवाच - ( अनुष्टुप् ) निशम्येत्थं भगवतः कृष्णस्याकुण्थमेधसः । वचो दुरन्वयं विप्राः तूष्णीमासन् भ्रमद्धियः
चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् । जनसङ्ग्रह इत्यूचुः स्मयन्तस्तं जगद्गुरुम्
श्रीमुनय ऊचुः - ( मिश्र ) यन्मायया तत्त्वविदुत्तमा वयं विमोहिता विश्वसृजामधीश्वराः । यदीशितव्यायति गूढ ईहया अहो विचित्रं भगवद् विचेष्टितम्
अनीह एतद् बहुधैक आत्मना सृजत्यवत्यत्ति न बध्यते यथा । भौमैर्हि भूमिर्बहुनामरूपिणी अहो विभूम्नश्चरितं विडम्बनम्
अथापि काले स्वजनाभिगुप्तये बिभर्षि सत्त्वं खलनिग्रहाय च । स्वलीलया वेदपथं सनातनं वर्णाश्रमात्मा पुरुषः परो भवान्