य इत्थं वीर्यशुल्कां मां। दासीभिश्चतुरङ्गिणीम्। पथि निर्जित्य राजन्यान्। निन्ये तद्दास्यमस्तु मे
श्रीभद्रोवाच। पिता मे मातुलेयाय स्वयमाहूय दत्तवान्। कृष्णे कृष्णाय तच्चित्तामक्षौहिण्या सखीजनैः
अस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि। कर्मभिर्भ्राम्यमाणाया येन तच्छ्रेय आत्मनः
श्रीलक्ष्मणोवाच। ममापि राज्ञ्यच्युतजन्मकर्म श्रुत्वा मुहुर्नारदगीतमास ह। चित्तं मुकुन्दे किल पद्महस्तया वृतः सुसम्मृश्य विहाय लोकपान्
ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः। बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत्
यथा स्वयंवरे राज्ञि मत्स्यः पार्थेप्सया कृतः। अयं तु बहिराच्छन्नो दृश्यते स जले परम्
श्रुत्वैतत्सर्वतो भूपा आययुर्मत्पितुः पुरम्। सर्वास्त्रशस्त्रतत्त्वज्ञाः सोपाध्यायाः सहस्रशः
पित्रा सम्पूजिताः सर्वे यथावीर्यं यथावयः। आददुः सशरं चापं वेद्धुं पर्षदि मद्धियः
आदाय व्यसृजन्केचित्सज्यं कर्तुमनीश्वराः। आकोष्ठं ज्यां समुत्कृष्य पेतुरेकेऽमुनाहताः
सज्यं कृत्वापरे वीरा मागधाम्बष्ठचेदिपाः। भीमो दुर्योधनः कर्णो नाविदंस्तदवस्थितिम्
मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तदवस्थितिम्। पार्थो यत्तोऽसृजद्बाणं नाच्छिनत्पस्पृशे परम्
राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु। भगवान्धनुरादाय सज्यं कृत्वाथ लीलया
तस्मिन्सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज्जले। छित्त्वेषुणापातयत्तं सूर्ये चाभिजिति स्थिते २६ अभिजित्। दिवि दुन्दुभयो नेदुर्जयशब्दयुता भुवि। देवाश्च कुसुमासारान्मुमुचुर्हर्षविह्वलाः
तद्रङ्गमाविशमहं कलनूपुराभ्यां। पद्भ्यां प्रगृह्य कनकोज्वलरत्नमालाम् । नूत्ने निवीय परिधाय च कौशिकाग्र्ये। सव्रीडहासवदना कवरीधृतस्रक्
उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्विड्। गण्डस्थलं शिशिरहासकटाक्षमोक्षैः। राज्ञो निरीक्ष्य परितः शनकैर्मुरारेर्। अंसेऽनुरक्तहृदया निदधे स्वमालाम्
तावन्मृदङ्गपटहाः शङ्खभेर्यानकादयः। निनेदुर्नटनर्तक्यो ननृतुर्गायका जगुः
एवं वृते भगवति मयेशे नृपयूथपाः। न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्छयातुराः
मां तावद्रथमारोप्य हयरत्नचतुष्टयम्। शार्ङ्गमुद्यम्य सन्नद्धस्तस्थावाजौ चतुर्भुजः
दारुकश्चोदयामास काञ्चनोपस्करं रथम्। मिषतां भूभुजां राज्ञि मृगाणां मृगराडिव
तेऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन। संयत्ता उद्धृतेष्वासा ग्रामसिंहा यथा हरिम्
ते शार्ङ्गच्युतबाणौघैः कृत्तबाह्वङ्घ्रिकन्धराः। निपेतुः प्रधने केचिदेके सन्त्यज्य दुद्रुवुः
ततः पुरीं यदुपतिरत्यलङ्कृतां। रविच्छदध्वजपटचित्रतोरणाम्। कुशस्थलीं दिवि भुवि चाभिसंस्तुतां। समाविशत्तरणिरिव स्वकेतनम्
पिता मे पूजयामास सुहृत्सम्बन्धिबान्धवान्। महार्हवासोऽलङ्कारैः शय्यासनपरिच्छदैः
दासीभिः सर्वसम्पद्भिर्भटेभरथवाजिभिः। आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः
आत्मारामस्य तस्येमा वयं वै गृहदासिकाः। सर्वसङ्गनिवृत्त्याद्धा तपसा च बभूविम
महिष्य ऊचुः। भौमं निहत्य सगणं युधि तेन रुद्धा। ज्ञात्वाथ नः क्षितिजये जितराजकन्याः। निर्मुच्य संसृतिविमोक्षमनुस्मरन्तीः। पादाम्बुजं परिणिनाय य आप्तकामः
न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत। वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम्
कामयामह एतस्य श्रीमत्पादरजः श्रियः। कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः
व्रजस्त्रियो यद्वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः। गावश्चारयतो गोपाः पदस्पर्शं महात्मनः
ऋषिगणकृता भगवत्स्तुतिः; वसुदेवयज्ञोत्सवः; बन्धूनां प्रस्थापनादिकं च - श्रीशुक उवाच - ( वसंततिलका ) श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी माधव्यथ क्षितिपपत्न्य उत स्वगोप्यः । कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः