वायुर्यथा घनानीकं तृणं तूलं रजांसि च । संयोज्याक्षिपते भूयः तथा भूतानि भूतकृत्
मयि भक्तिर्हि भूतानां अमृतत्वाय कल्पते । दिष्ट्या यदासीत् मत्स्नेहो भवतीनां मदापनः
अहं हि सर्वभूतानां आदिरन्तोऽन्तरं बहिः । भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गनाः
एवं ह्येतानि भूतानि भूतेष्वात्माऽऽत्मना ततः । उभयं मय्यथ परे पश्यताभातमक्षरे
श्रीशुक उवाच - अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिताः । तदनुस्मरणध्वस्त जीवकोशास्तमध्यगन्
( वसंततिलका ) आहुश्च ते नलिननाभ पदारविन्दं योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः । संसारकूपपतितोत्तरणावलम्बं गेहं जुषामपि मनस्युदियात् सदा नः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे वृष्णीगोपसंगमो नाम द्व्यशीतितमोऽध्यायः
द्रौपदीं प्रति श्रीकृष्णपत्नीनां स्वस्वोद्वाहवृत्तांतवर्णनम् - अथ त्र्यशीतितमोऽध्यायः श्रीशुक उवाच। तथानुगृह्य भगवान्गोपीनां स गुरुर्गतिः। युधिष्ठिरमथापृच्छत्सर्वांश्च सुहृदोऽव्ययम्
त एवं लोकनाथेन परिपृष्टाः सुसत्कृताः। प्रत्यूचुर्हृष्टमनसस्तत्पादेक्षाहतांहसः
कुतोऽशिवं त्वच्चरणाम्बुजासवं महन्मनस्तो मुखनिःसृतं क्वचित्। पिबन्ति ये कर्णपुटैरलं प्रभो देहंभृतां देहकृदस्मृतिच्छिदम्
हित्वात्म धामविधुतात्मकृतत्र्यवस्थाम्। आनन्दसम्प्लवमखण्डमकुण्ठबोधम्। कालोपसृष्टनिगमावन आत्तयोग। मायाकृतिं परमहंसगतिं नताः स्म
श्रीऋषिरुवाच। इत्युत्तमःश्लोकशिखामणिं जनेष्व्। अभिष्टुवत्स्वन्धककौरवस्त्रियः। समेत्य गोविन्दकथा मिथोऽगृणंस्। त्रिलोकगीताः शृणु वर्णयामि ते
श्रीद्रौपद्युवाच। हे वैदर्भ्यच्युतो भद्रे हे जाम्बवति कौशले। हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे
हे कृष्णपत्न्य एतन्नो ब्रूत वो भगवान्स्वयम्। उपयेमे यथा लोकमनुकुर्वन्स्वमायया
श्रीरुक्मिण्युवाच। चैद्याय मार्पयितुमुद्यतकार्मुकेषु। राजस्वजेयभटशेखरिताङ्घ्रिरेणुः। निन्ये मृगेन्द्र इव भागमजावियूथात्। तच्छ्रीनिकेतचरणोऽस्तु ममार्चनाय
श्रीसत्यभामोवाच। यो मे सनाभिवधतप्तहृदा ततेन। लिप्ताभिशापमपमार्ष्टुमुपाजहार। जित्वर्क्षराजमथ रत्नमदात्स तेन। भीतः पितादिशत मां प्रभवेऽपि दत्ताम्
श्रीजाम्बवत्युवाच। प्राज्ञाय देहकृदमुं निजनाथदैवं। सीतापतिं त्रिनवहान्यमुनाभ्ययुध्यत्। ज्ञात्वा परीक्षित उपाहरदर्हणं मां। पादौ प्रगृह्य मणिनाहममुष्य दासी
श्रीकालिन्द्युवाच। तपश्चरन्तीमाज्ञाय स्वपादस्पर्शनाशया। सख्योपेत्याग्रहीत्पाणिं योऽहं तद्गृहमार्जनी
श्रीमित्रविन्दोवाच। यो मां स्वयंवर उपेत्य विजित्य भूपान्। निन्ये श्वयूथगं इवात्मबलिं द्विपारिः। भ्रातॄंश्च मेऽपकुरुतः स्वपुरं श्रियौकस्। तस्यास्तु मेऽनुभवमङ्घ्र्यवनेजनत्वम्
श्रीसत्योवाच। सप्तोक्षणोऽतिबलवीर्यसुतीक्ष्णशृङ्गान्। पित्रा कृतान्क्षितिपवीर्यपरीक्षणाय। तान्वीरदुर्मदहनस्तरसा निगृह्य। क्रीडन्बबन्ध ह यथा शिशवोऽजतोकान्
य इत्थं वीर्यशुल्कां मां। दासीभिश्चतुरङ्गिणीम्। पथि निर्जित्य राजन्यान्। निन्ये तद्दास्यमस्तु मे
श्रीभद्रोवाच। पिता मे मातुलेयाय स्वयमाहूय दत्तवान्। कृष्णे कृष्णाय तच्चित्तामक्षौहिण्या सखीजनैः
अस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि। कर्मभिर्भ्राम्यमाणाया येन तच्छ्रेय आत्मनः
श्रीलक्ष्मणोवाच। ममापि राज्ञ्यच्युतजन्मकर्म श्रुत्वा मुहुर्नारदगीतमास ह। चित्तं मुकुन्दे किल पद्महस्तया वृतः सुसम्मृश्य विहाय लोकपान्
ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः। बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत्
यथा स्वयंवरे राज्ञि मत्स्यः पार्थेप्सया कृतः। अयं तु बहिराच्छन्नो दृश्यते स जले परम्
श्रुत्वैतत्सर्वतो भूपा आययुर्मत्पितुः पुरम्। सर्वास्त्रशस्त्रतत्त्वज्ञाः सोपाध्यायाः सहस्रशः
पित्रा सम्पूजिताः सर्वे यथावीर्यं यथावयः। आददुः सशरं चापं वेद्धुं पर्षदि मद्धियः
आदाय व्यसृजन्केचित्सज्यं कर्तुमनीश्वराः। आकोष्ठं ज्यां समुत्कृष्य पेतुरेकेऽमुनाहताः
सज्यं कृत्वापरे वीरा मागधाम्बष्ठचेदिपाः। भीमो दुर्योधनः कर्णो नाविदंस्तदवस्थितिम्