ददुः स्वन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिरस्त्विति । स्वयं च तदनुज्ञाता वृष्णयः कृष्णदेवताः
भुक्त्वोपविविशुः कामं स्निग्धच्छायाङ्घ्रिपाङ्घ्रिषु । तत्रागतांस्ते ददृशुः सुहृत्संबन्धिनो नृपान्
मत्स्योशीनरकौशल्य विदर्भकुरुसृञ्जयान् । काम्बोजकैकयान् मद्रान् कुन्तीनानर्तकेरलान्
अन्यांश्चैवात्मपक्षीयान् परांश्च शतशो नृप । नन्दादीन् सुहृदो गोपान् गोपीश्चोत्कण्ठिताश्चिरम्
( मिश्र ) अन्योन्यसन्दर्शनहर्षरंहसा प्रोत्फुल्लहृद्वक्त्रसरोरुहश्रियः । आश्लिष्य गाढं नयनैः स्रवज्जला हृष्यत्त्वचो रुद्धगिरो ययुर्मुदम्
स्त्रियश्च संवीक्ष्य मिथोऽतिसौहृद स्मितामलापाङ्गदृशोऽभिरेभिरे । स्तनैः स्तनान् कुङ्कुमपङ्करूषितान् निहत्य दोर्भिः प्रणयाश्रुलोचनाः
( अनुष्टुप् ) ततोऽभिवाद्य ते वृद्धान् यविष्ठैरभिवादिताः । स्वागतं कुशलं पृष्ट्वा चक्रुः कृष्णकथा मिथः
पृथा भ्रातॄन् स्वसॄर्वीक्ष्य तत्पुत्रान् पितरावपि । भ्रातृपत्नीर्मुकुन्दं च जहौ सङ्कथया शुचः
कुन्त्युवाच - आर्य भ्रातरहं मन्ये आत्मानमकृताशिषम् । यद्वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमाः
सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि । नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणम्
श्रीवसुदेव उवाच - अम्ब मास्मानसूयेथा दैवक्रीडनकान् नरान् । ईशस्य हि वशे लोकः कुरुते कार्यतेऽथ वा
कंसप्रतापिताः सर्वे वयं याता दिशं दिशम् । एतर्ह्येव पुनः स्थानं दैवेनासादिताः स्वसः
श्रीशुक उवाच - वसुदेवोग्रसेनाद्यैः यदुभिस्तेऽर्चिता नृपाः । आसन् अच्युतसन्दर्श परमानन्दनिर्वृताः
भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी ससुता तथा । सदाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः
कुन्तीभोजो विराटश्च भीष्मको नग्नजिन्महान् । पुरुजिद् द्रुपदः शल्यो धृष्टकेतुः सकाशिराट्
दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ । युधामन्युः सुशर्मा च ससुता बाह्लिकादयः
राजानो ये च राजेन्द्र युधिष्ठिरमनुव्रताः । श्रीनिकेतं वपुः शौरेः सस्त्रीकं वीक्ष्य विस्मिताः
अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणाः । प्रशशंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान्
अहो भोजपते यूयं जन्मभाजो नृणामिह । यत् पश्यथासकृत् कृष्णं दुर्दर्शमपि योगिनाम्
( वसंततिलका ) यद्विश्रुतिः श्रुतिनुतेदमलं पुनाति पादावनेजनपयश्च वचश्च शास्त्रम् । भूः कालभर्जितभगापि यदङ्घ्रिपद्म स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान्
तद्दर्शनस्पर्शनानुपथप्रजल्प शय्यासनाशनसयौनसपिण्डबन्धः । येषां गृहे निरयवर्त्मनि वर्ततां वः स्वर्गापवर्गविरमः स्वयमास विष्णुः
श्रीशुक उवाच - ( अनुष्टुप् ) नन्दस्तत्र यदून् प्राप्तान् ज्ञात्वा कृष्णपुरोगमान् । तत्रागमद्वृतो गोपैः अनः स्थार्थैः दिदृक्षया
तं दृष्ट्वा वृष्णयो हृष्टाः तन्वः प्राणमिवोत्थिताः । परिषस्वजिरे गाढं चिरदर्शनकातराः
वसुदेवः परिष्वज्य सम्प्रीतः प्रेमविह्वलः । स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासं च गोकुले
कृष्णरामौ परिष्वज्य पितरावभिवाद्य च । न किञ्चनोचतुः प्रेम्णा साश्रुकण्ठौ कुरूद्वह
तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च । यशोदा च महाभागा सुतौ विजहतुः शुचः
रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् । स्मरन्त्यौ तत्कृतां मैत्रीं बाष्पकण्ठ्यौ समूचतुः
का विस्मरेत वां मैत्रीं अनिवृत्तां व्रजेश्वरि । अवाप्याप्यैन्द्रमैश्वर्यं यस्या नेह प्रतिक्रिया
( वसंततिलका ) एतावदृष्टपितरौ युवयोः स्म पित्रोः सम्प्रीणनाभ्युदयपोषणपालनानि । प्राप्योषतुर्भवति पक्ष्म ह यद्वदक्ष्णोः न्यस्तावकुत्र च भयौ न सतां परः स्वः
श्रीशुक उवाच - गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति । दृग्भिर्हृदीकृतमलं परिरभ्य सर्वाः तद्भावमापुरपि नित्ययुजां दुरापम्