पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना । मीलिताक्ष्यनमद् बुद्ध्या मनसा परिषस्वजे
पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीमिव । दासीनां निष्ककण्ठीनां मध्ये भान्तीं स विस्मितः
प्रीतः स्वयं तया युक्तः प्रविष्टो निजमन्दिरम् । मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः । पर्यङ्का हेमदण्डानि चामरव्यजनानि च
आसनानि च हैमानि मृदूपस्तरणानि च । मुक्तादामविलम्बीनि वितानानि द्युमन्ति च
स्वच्छस्फटिककुड्येषु महामारकतेषु च । रत्नदीपा भ्राजमानान् ललना रत्नसंयुताः
विलोक्य ब्राह्मणस्तत्र समृद्धीः सर्वसम्पदाम् । तर्कयामास निर्व्यग्रः स्वसमृद्धिमहैतुकीम्
( मिश्र ) नूनं बतैतन्मम दुर्भगस्य शश्वद् दरिद्रस्य समृद्धिहेतुः । महाविभूतेरवलोकतोऽन्यो नैवोपपद्येत यदूत्तमस्य
नन्वब्रुवाणो दिशते समक्षं याचिष्णवे भूर्यपि भूरिभोजः । पर्जन्यवत्तत् स्वयमीक्षमाणो दाशार्हकाणामृषभः सखा मे
किञ्चित्करोत्युर्वपि यत् स्वदत्तं सुहृत्कृतं फल्ग्वपि भूरिकारी । मयोपणीतं पृथुकैकमुष्टिं प्रत्यग्रहीत् प्रीतियुतो महात्मा
तस्यैव मे सौहृदसख्यमैत्री दास्यं पुनर्जन्मनि जन्मनि स्यात् । महानुभावेन गुणालयेन विषज्जतः तत्पुरुषप्रसङ्गः
( इंद्रवंशा ) भक्ताय चित्रा भगवान् हि सम्पदो राज्यं विभूतीर्न समर्थयत्यजः । अदीर्घबोधाय विचक्षणः स्वयं पश्यन् निपातं धनिनां मदोद्भवम्
( अनुष्टुप् ) इत्थं व्यवसितो बुद्ध्या भक्तोऽतीव जनार्दने । विषयान्जायया त्यक्ष्यन् बुभुजे नातिलम्पटः
तस्य वै देवदेवस्य हरेर्यज्ञपतेः प्रभोः । ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम्
एवं स विप्रो भगवत्सुहृत्तदा दृष्ट्वा स्वभृत्यैरजितं पराजितम् । तद्ध्यानवेगोद्ग्रथितात्मबन्धनः तद्धाम लेभेऽचिरतः सतां गतिम्
एतद् ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नरः । लब्धभावो भगवति कर्मबन्धाद् विमुच्यते
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पृथुकोपाख्यानं नाम एकशीतितमोऽध्यायः
कुरुक्षेत्रे सूर्योपरागपर्वणि यदुभिः सह कुरूणां नन्दादिगोपानां च समागमः - श्रीशुक उवाच - ( अनुष्टुप् ) अथैकदा द्वारवत्यां वसतो रामकृष्णयोः । सूर्योपरागः सुमहानासीत्कल्पक्षये यथा
तं ज्ञात्वा मनुजा राजन्पुरस्तादेव सर्वतः । समन्तपञ्चकं क्षेत्रं ययुः श्रेयोविधित्सया
निःक्षत्रियां महीं कुर्वन्रामः शस्त्रभृतां वरः । नृपाणां रुधिरौघेण यत्र चक्रे महाह्रदान्
ईजे च भगवान्रामो यत्रास्पृष्टोऽपि कर्मणा । लोकं सङ्ग्राहयन्नीशो यथान्योऽघापनुत्तये
महत्यां तीर्थयात्रायां तत्रागन्भारतीः प्रजाः । वृष्णयश्च तथाक्रूर वसुदेवाहुकादयः
ययुर्भारत तत्क्षेत्रं स्वमघं क्षपयिष्णवः । गदप्रद्युम्नसाम्बाद्याः सुचन्द्रशुकसारणैः
आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथपः । ते रथैर्देवधिष्ण्याभैः हयैश्च तरलप्लवैः
गजैर्नदद्भिरभ्राभैः नृभिर्विद्याधरद्युभिः । व्यरोचन्त महातेजाः पथि काञ्चनमालिनः
दिव्यस्रग्वस्त्रसन्नाहाः कलत्रैः खेचरा इव । तत्र स्नात्वा महाभागा उपोष्य सुसमाहिताः
ब्राह्मणेभ्यो ददुर्धेनूः वासःस्रग्रुक्ममालिनीः । रामह्रदेषु विधिवत् पुनराप्लुत्य वृष्णयः
ददुः स्वन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिरस्त्विति । स्वयं च तदनुज्ञाता वृष्णयः कृष्णदेवताः
भुक्त्वोपविविशुः कामं स्निग्धच्छायाङ्घ्रिपाङ्घ्रिषु । तत्रागतांस्ते ददृशुः सुहृत्संबन्धिनो नृपान्
मत्स्योशीनरकौशल्य विदर्भकुरुसृञ्जयान् । काम्बोजकैकयान् मद्रान् कुन्तीनानर्तकेरलान्