श्वोभूते विश्वभावेन स्वसुखेनाभिवन्दितः । जगाम स्वालयं तात पथ्यनुव्रज्य नन्दितः
स चालब्ध्वा धनं कृष्णान् न तु याचितवान् स्वयम् । स्वगृहान् व्रीडितोऽगच्छन् महद्दर्शननिर्वृतः
अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया । यद् दरिद्रतमो लक्ष्मीं आश्लिष्टो बिभ्रतोरसि
क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्रीनिकेतनः । ब्रह्मबन्धुरिति स्माहं बाहुभ्यां परिरम्भितः
निवासितः प्रियाजुष्टे पर्यङ्के भ्रातरो यथा । महिष्या वीजितः श्रान्तो बालव्यजनहस्तया
शुश्रूषया परमया पादसंवाहनादिभिः । पूजितो देवदेवेन विप्रदेवेन देववत्
स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् । सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम्
अधनोऽयं धनं प्राप्य माद्यात् उच्चैः न मां स्मरेत् । इति कारुणिको नूनं धनं मेऽभूरि नाददात्
इति तच्चिन्तयन् अन्तः प्राप्तो नियगृहान्तिकम् । सूर्यानलेन्दुसङ्काशैः विमानैः सर्वतो वृतम्
विचित्रोपवनोद्यानैः कूजद्द्विजकुलाकुलैः । प्रोत्फुल्लकमुदाम्भोज कह्लारोत्पलवारिभिः
जुष्टं स्वलङ्कृतैः पुम्भिः स्त्रीभिश्च हरिणाक्षिभिः । किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत्
एवं मीमांसमानं तं नरा नार्योऽमरप्रभाः । प्रत्यगृह्णन् महाभागं गीतवाद्येन भूयसा
पतिमागतमाकर्ण्य पत्न्युद्धर्षातिसम्भ्रमा । निश्चक्राम गृहात्तूर्णं रूपिणी श्रीरिवालयात्
पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना । मीलिताक्ष्यनमद् बुद्ध्या मनसा परिषस्वजे
पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीमिव । दासीनां निष्ककण्ठीनां मध्ये भान्तीं स विस्मितः
प्रीतः स्वयं तया युक्तः प्रविष्टो निजमन्दिरम् । मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः । पर्यङ्का हेमदण्डानि चामरव्यजनानि च
आसनानि च हैमानि मृदूपस्तरणानि च । मुक्तादामविलम्बीनि वितानानि द्युमन्ति च
स्वच्छस्फटिककुड्येषु महामारकतेषु च । रत्नदीपा भ्राजमानान् ललना रत्नसंयुताः
विलोक्य ब्राह्मणस्तत्र समृद्धीः सर्वसम्पदाम् । तर्कयामास निर्व्यग्रः स्वसमृद्धिमहैतुकीम्
( मिश्र ) नूनं बतैतन्मम दुर्भगस्य शश्वद् दरिद्रस्य समृद्धिहेतुः । महाविभूतेरवलोकतोऽन्यो नैवोपपद्येत यदूत्तमस्य
नन्वब्रुवाणो दिशते समक्षं याचिष्णवे भूर्यपि भूरिभोजः । पर्जन्यवत्तत् स्वयमीक्षमाणो दाशार्हकाणामृषभः सखा मे
किञ्चित्करोत्युर्वपि यत् स्वदत्तं सुहृत्कृतं फल्ग्वपि भूरिकारी । मयोपणीतं पृथुकैकमुष्टिं प्रत्यग्रहीत् प्रीतियुतो महात्मा
तस्यैव मे सौहृदसख्यमैत्री दास्यं पुनर्जन्मनि जन्मनि स्यात् । महानुभावेन गुणालयेन विषज्जतः तत्पुरुषप्रसङ्गः
( इंद्रवंशा ) भक्ताय चित्रा भगवान् हि सम्पदो राज्यं विभूतीर्न समर्थयत्यजः । अदीर्घबोधाय विचक्षणः स्वयं पश्यन् निपातं धनिनां मदोद्भवम्
( अनुष्टुप् ) इत्थं व्यवसितो बुद्ध्या भक्तोऽतीव जनार्दने । विषयान्जायया त्यक्ष्यन् बुभुजे नातिलम्पटः
तस्य वै देवदेवस्य हरेर्यज्ञपतेः प्रभोः । ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम्
एवं स विप्रो भगवत्सुहृत्तदा दृष्ट्वा स्वभृत्यैरजितं पराजितम् । तद्ध्यानवेगोद्ग्रथितात्मबन्धनः तद्धाम लेभेऽचिरतः सतां गतिम्
एतद् ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नरः । लब्धभावो भगवति कर्मबन्धाद् विमुच्यते
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पृथुकोपाख्यानं नाम एकशीतितमोऽध्यायः