( अनुष्टुप् ) एतद् विदित्वा उदिते रवौ सान्दीपनिर्गुरुः । अन्वेषमाणो नः शिष्यान् आचार्योऽपश्यदातुरान्
अहो हे पुत्रका यूयं अस्मदर्थेऽतिदुःखिताः । आत्मा वै प्राणिनां प्रेष्ठः तं अनादृत्य मत्पराः
एतदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् । यद् वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ
तुष्टोऽहं भो द्विजश्रेष्ठाः सत्याः सन्तु मनोरथाः । छन्दांस्ययातयामानि भवन्त्विह परत्र च
इत्थंविधान्यनेकानि वसतां गुरुवेश्मसु । गुरोरनुग्रहेणैव पुमान् पूर्णः प्रशान्तये
श्रीब्राह्मण उवाच - किमस्माभिरनिर्वृत्तं देवदेव जगद्गुरो । भवता सत्यकामेन येषां वासो गुरावभूत्
यस्य च्छन्दोमयं ब्रह्म देह आवपनं विभो । श्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रीदामचरिते अशीतितमोऽध्यायः
श्रीशुक उवाच - ( अनुष्टुप् ) स इत्थं द्विजमुख्येन सह सङ्कथयन् हरिः । सर्वभूतमनोऽभिज्ञः स्मयमान उवाच तम्
ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् । प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः
श्रीभगवानुवाच - किमुपायनमानीतं ब्रह्मन्मे भवता गृहात् । अण्वप्युपाहृतं भक्तैः प्रेम्णा भुर्येव मे भवेत् । भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतं अश्नामि प्रयतात्मनः
इत्युक्तोऽपि द्विजस्तस्मै व्रीडितः पतये श्रियः । पृथुकप्रसृतिं राजन् न प्रायच्छदवाङ्मुखः
सर्वभूतात्मदृक् साक्षात् तस्यागमनकारणम् । विज्ञायाचिन्तयन्नायं श्रीकामो माभजत्पुरा
पत्न्याः पतिव्रतायास्तु सखा प्रियचिकीर्षया । प्राप्तो मामस्य दास्यामि सम्पदोऽमर्त्यदुर्लभाः
इत्थं विचिन्त्य वसनात् चीरबद्धान् द्विजन्मनः । स्वयं जहार किमिदं इति पृथुकतण्डुलान्
नन्वेतदुपनीतं मे परमप्रीणनं सखे । तर्पयन्त्यङ्ग मां विश्वं एते पृथुकतण्डुलाः
इति मुष्टिं सकृज्जग्ध्वा द्वितीयां जग्धुमाददे । तावच्छ्रीर्जगृहे हस्तं तत्परा परमेष्ठिनः
एतावतालं विश्वात्मन् सर्वसम्पत्समृद्धये । अस्मिन्लोके अथवामुष्मिन् पुंसस्त्वत्तोषकारणम्
ब्राह्मणस्तां तु रजनीं उषित्वाच्युतमन्दिरे । भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गतं यथा
श्वोभूते विश्वभावेन स्वसुखेनाभिवन्दितः । जगाम स्वालयं तात पथ्यनुव्रज्य नन्दितः
स चालब्ध्वा धनं कृष्णान् न तु याचितवान् स्वयम् । स्वगृहान् व्रीडितोऽगच्छन् महद्दर्शननिर्वृतः
अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया । यद् दरिद्रतमो लक्ष्मीं आश्लिष्टो बिभ्रतोरसि
क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्रीनिकेतनः । ब्रह्मबन्धुरिति स्माहं बाहुभ्यां परिरम्भितः
निवासितः प्रियाजुष्टे पर्यङ्के भ्रातरो यथा । महिष्या वीजितः श्रान्तो बालव्यजनहस्तया
शुश्रूषया परमया पादसंवाहनादिभिः । पूजितो देवदेवेन विप्रदेवेन देववत्
स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् । सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम्
अधनोऽयं धनं प्राप्य माद्यात् उच्चैः न मां स्मरेत् । इति कारुणिको नूनं धनं मेऽभूरि नाददात्
इति तच्चिन्तयन् अन्तः प्राप्तो नियगृहान्तिकम् । सूर्यानलेन्दुसङ्काशैः विमानैः सर्वतो वृतम्
विचित्रोपवनोद्यानैः कूजद्द्विजकुलाकुलैः । प्रोत्फुल्लकमुदाम्भोज कह्लारोत्पलवारिभिः