शोधनं मार्जनं भूमेः लेपनं धातुमण्डनम् । गृहोपस्करमुद्ध्रुत्य गृहकोणे निवेशयेत्
अर्वाक् पंचाहतो यत्नात् आस्तीर्णानि प्रमेलयेत् । कर्तव्यो मण्डपः प्रोच्चैः कदलीखण्डमण्डितः
फलपुष्पदलैर्विष्वक् वितानेन विराजितः । चतुर्दिक्षु ध्वजारोपो बहुसम्पद्विराजितः
ऊर्ध्वं सप्तैव लोकाश्च कल्पनीयाः सविस्तरम् । तेषु विप्रा विरक्ताश्च स्थापनीयाः प्रबोध्य च
पूर्वं तेषां आसनानि कर्तव्यानि यथोत्तरम् । वक्तुश्चापि तदा दिव्यं आसनं परिकल्पयेत्
उदङ्मुखो भवेद्वक्ता श्रोता वै प्राङ्मुखस्तदा । प्राङ्मुखश्चेत् भवेद्वक्ता श्रोता च उदङ्मुखस्तदा
अथवा पूर्वदिग्ज्ञेया पूज्यपूजकमध्यतः । श्रोतॄणां आगमे प्रोक्ता देशकालादिकोविदैः
विरक्तो वैष्णवो विप्रो वेदशास्त्रविशुद्धिकृत् । दृष्टान्तकुशलो धीरो वक्ता कार्योऽति निःस्पृह
अनेकधर्मनिभ्रान्ताः स्त्रैणाः पाखण्डवादिनः । शुकशास्त्रकथोच्चारे त्याज्यास्ते यदि पण्डिताः
वक्तुः पार्श्वे सहायार्थं अन्यः स्थाप्यस्तथाविधः । पण्डितः संशयच्छेत्ता लोकबोधनतत्परः
वक्त्रा क्षौरं प्रकर्तव्यं दिनाद् अर्वाक् व्रताप्तये । अरुणोदयेऽसौ निर्वर्त्य शौचं स्नानं समाचरेत्
नित्यं संक्षेपतः कृत्वा संध्याद्यं स्वं प्रयत्नतः । कथाविघ्नविघाताय गणनाथं प्रपूजयेत्
पितॄन् संतर्प्य शुद्ध्यर्थं प्रायश्चित्तं समाचरेत् । मण्डलं च प्रकर्तव्यं तत्र स्थाप्यो हरिस्तथा
कृष्णमुद्दिश्य मंत्रेण चरेत् पूजाविधिं क्रमात् । प्रदक्षिण नमस्कारान् पूजान्ते स्तुतिमाचरेत्
संसारसागरे मग्नं दीनं मां करुणानिधे । कर्ममोहगृहीताङ्गं मामुद्धर भवार्णवात्
श्रीमद्भागवतस्यापि ततः पूजा प्रयत्नतः । कर्तव्या विधिना प्रीत्या धूपदीपसमन्विता
ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत् । स्तुतिः प्रसन्नचित्तेन कर्तव्या केवलं तदा
श्रीमद्भागवताख्योऽयं प्रत्यक्षः कृष्ण एव हि । स्वीकृतोऽसि मया नाथ मुक्त्यर्थं भवसागरे
मनोरथो मदीयोऽयं सफलः सर्वथा त्वया । निर्विघ्नेनैव कर्तव्य दासोऽहं तव केशव
एवं दीनवचः प्रोच्य वक्तारं चाथ पूजयेत् । सम्भूष्य वस्त्रभूषाभिः पूजान्ते तं च संस्तवेत्
शुकरूप प्रबोधज्ञ सर्वशास्त्रविशारद । एतत्कथाप्रकाशेन मदज्ञानं विनाशय
तदग्रे नियमः पश्चात् कर्तव्यः श्रेयसे मुदा । सप्तरात्रं यथाशक्त्या धारणीयः स एव हि
वरणं पंचविप्राणां कथाभङ्गनिवृत्तये । कर्तव्यं तैः हरेर्जाप्यं द्वादशाक्षरविद्यया
ब्राह्मणान् वैष्णवान् चान्यान् तथा कीर्तनकारिणः । नत्वा संपूज्य दत्ताज्ञः स्वयं आसनमाविशेत्
लोकवित्तधनागार पुत्रचिन्तां व्युदस्य च । कथाचित्तः शुद्धमतिः स लभेत्फलमुत्तमम्
आसूर्योदयमारभ्य सार्धत्रिप्रहरान्तकम् । वाचनीया कथा सम्यक् धीरकण्ठं सुधीमता
कथाविरामः कर्तव्यो मध्याह्ने घटिकाद्वयं । तत्कथामनु कार्यं वै कीर्तनं वैष्णवैस्तदा
मलमूत्रजयार्थं हि लघ्वाहारः सुखावहः । हविष्यान्नेन कर्तव्यो हि, एकवारं कथार्थिना
उपोष्य सप्तरात्रं वै शक्तिश्चेत् श्रुणुयात् तदा । घृतपानं पयःपानं कृत्वा वै श्रृणुयात् सुखम्
फलाहारेण वा भाव्यं एकभुक्तेन वा पुनः । सुखसाध्यं भवेद् यत्तु कर्तव्यं श्रवणाय तत्