ननु ब्रह्मन् भगवतः सखा साक्षाच्छ्रियः पतिः । ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभः
तमुपैहि महाभाग साधूनां च परायणम् । दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने
आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वरः । स्मरतः पादकमलं आत्मानमपि यच्छति । किं न्वर्थकामान् भजतो नात्यभीष्टान्जगद्गुरुः
स एवं भार्यया विप्रो बहुशः प्रार्थितो मृदु । अयं हि परमो लाभ उत्तमःश्लोकदर्शनम्
इति सञ्चिन्त्य मनसा गमनाय मतिं दधे । अप्यस्त्युपायनं किञ्चिद् गृहे कल्याणि दीयताम्
याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान् । चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम्
स तानादाय विप्राग्र्यः प्रययौ द्वारकां किल । कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन्
त्रीणि गुल्मान्यतीयाय तिस्रः कक्षाश्च सद्विजः । विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम्
गृहं द्व्यष्टसहस्राणां महिषीणां हरेर्द्विजः । विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा
तं विलोक्याच्युतो दूरात् प्रियापर्यङ्कमास्थितः । सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा
सख्युः प्रियस्य विप्रर्षेः अङ्गसङ्गातिनिर्वृतः । प्रीतो व्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षणः
अथोपवेश्य पर्यङ्के स्वयं सख्युः समर्हणम् । उपहृत्यावनिज्यास्य पादौ पादावनेजनीः
अग्रहीच्छिरसा राजन् भगवान् लोकपावनः । व्यलिम्पद् दिव्यगन्धेन चन्दनागुरुकुङ्कमैः
धूपैः सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा । अर्चित्वाऽऽवेद्य ताम्बूलं गां च स्वागतमब्रवीत्
कुचैलं मलिनं क्षामं द्विजं धमनिसंततम् । देवी पर्यचरत् साक्षात् चामरव्यजनेन वै
अन्तःपुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना । विस्मितोऽभूदतिप्रीत्या अवधूतं सभाजितम्
किमनेन कृतं पुण्यं अवधूतेन भिक्षुणा । श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च
योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः । पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा
कथयां चक्रतुर्गाथाः पूर्वा गुरुकुले सतोः । आत्मनोर्ललिता राजन् करौ गृह्य परस्परम्
श्रीभगवानुवाच - अपि ब्रह्मन्गुरुकुलाद् भवता लब्धदक्षिणात् । समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा
प्रायो गृहेषु ते चित्तं अकामविहितं तथा । नैवातिप्रीयसे विद्वन् धनेषु विदितं हि मे
केचित् कुर्वन्ति कर्माणि कामैरहतचेतसः । त्यजन्तः प्रकृतीर्दैवीः यथाहं लोकसङ्ग्रहम्
कच्चिद् गुरुकुले वासं ब्रह्मन् स्मरसि नौ यतः । द्विजो विज्ञाय विज्ञेयं तमसः पारमश्नुते
स वै सत्कर्मणां साक्षाद् द्विजातेरिह सम्भवः । आद्योऽङ्ग यत्राश्रमिणां यथाहं ज्ञानदो गुरुः
नन्वर्थकोविदा ब्रह्मन् वर्णाश्रमवतामिह । ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम्
नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा । तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा
अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ । गुरुदारैश्चोदितानां इन्धनानयने क्वचित्
प्रविष्टानां महारण्यं अपर्तौ सुमहद् द्विज । वातवर्षं अभूत्तीव्रं निष्ठुराः स्तनयित्नवः
सूर्यश्चास्तं गतस्तावत् तमसा चावृता दिशः । निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन
( वंशस्था ) वयं भृशम्तत्र महानिलाम्बुभिः निहन्यमाना महुरम्बुसम्प्लवे । दिशोऽविदन्तोऽथ परस्परं वने गृहीतहस्ताः परिबभ्रिमातुराः