तं पापं जहि दाशार्ह तन्नः शुश्रूषणं परम्। पूयशोणितविन्मूत्र सुरामांसाभिवर्षिणम्
ततश्च भारतं वर्षं परीत्य सुसमाहितः। चरित्वा द्वादशमासांस्तीर्थस्नायी विशुध्यसि
सुदामोपाख्यानम् – पत्नीप्रेरणया सुदाम्नो भगवत् समीपे गमनं; भगवता तस्य सत्कारश्च - श्रीराजोवाच - ( अनुष्टुप् ) भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः । वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामि हे प्रभो
को नु श्रुत्वासकृद् ब्रह्मन् उत्तमःश्लोकसत्कथाः । विरमेत विशेषज्ञो विषण्णः काममार्गणैः
( मिश्र ) सा वाग् यया तस्य गुणान् गृणीते करौ च तत्कर्मकरौ मनश्च । स्मरेद् वसन्तं स्थिरजङ्गमेषु श्रृणोति तत्पुण्यकथाः स कर्णः
शिरस्तु तस्योभयलिङ्गमानं एत्तदेव यत्पश्यति तद्धि चक्षुः । अङ्गानि विष्णोरथ तज्जनानां पादोदकं यानि भजन्ति नित्यम्
सूत उवाच - ( अनुष्टुप् ) विष्णुरातेन सम्पृष्टो भगवान् बादरायणिः । वासुदेवे भगवति निमग्नहृदयोऽब्रवीत्
श्रीशुक उवाच - कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्मवित्तमः । विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः
यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी । तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा
पतिव्रता पतिं प्राह म्लायता वदनेन सा । दरिद्रं सीदमाना वै वेपमानाभिगम्य च
ननु ब्रह्मन् भगवतः सखा साक्षाच्छ्रियः पतिः । ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभः
तमुपैहि महाभाग साधूनां च परायणम् । दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने
आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वरः । स्मरतः पादकमलं आत्मानमपि यच्छति । किं न्वर्थकामान् भजतो नात्यभीष्टान्जगद्गुरुः
स एवं भार्यया विप्रो बहुशः प्रार्थितो मृदु । अयं हि परमो लाभ उत्तमःश्लोकदर्शनम्
इति सञ्चिन्त्य मनसा गमनाय मतिं दधे । अप्यस्त्युपायनं किञ्चिद् गृहे कल्याणि दीयताम्
याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान् । चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम्
स तानादाय विप्राग्र्यः प्रययौ द्वारकां किल । कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन्
त्रीणि गुल्मान्यतीयाय तिस्रः कक्षाश्च सद्विजः । विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम्
गृहं द्व्यष्टसहस्राणां महिषीणां हरेर्द्विजः । विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा
तं विलोक्याच्युतो दूरात् प्रियापर्यङ्कमास्थितः । सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा
सख्युः प्रियस्य विप्रर्षेः अङ्गसङ्गातिनिर्वृतः । प्रीतो व्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षणः
अथोपवेश्य पर्यङ्के स्वयं सख्युः समर्हणम् । उपहृत्यावनिज्यास्य पादौ पादावनेजनीः
अग्रहीच्छिरसा राजन् भगवान् लोकपावनः । व्यलिम्पद् दिव्यगन्धेन चन्दनागुरुकुङ्कमैः
धूपैः सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा । अर्चित्वाऽऽवेद्य ताम्बूलं गां च स्वागतमब्रवीत्
कुचैलं मलिनं क्षामं द्विजं धमनिसंततम् । देवी पर्यचरत् साक्षात् चामरव्यजनेन वै
अन्तःपुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना । विस्मितोऽभूदतिप्रीत्या अवधूतं सभाजितम्
किमनेन कृतं पुण्यं अवधूतेन भिक्षुणा । श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च
योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः । पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा
कथयां चक्रतुर्गाथाः पूर्वा गुरुकुले सतोः । आत्मनोर्ललिता राजन् करौ गृह्य परस्परम्
श्रीभगवानुवाच - अपि ब्रह्मन्गुरुकुलाद् भवता लब्धदक्षिणात् । समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा