सोऽर्चितः सपरीवारः कृतासनपरिग्रहः। रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत
अप्रत्युत्थायिनं सूतमकृतप्रह्वणाञ्जलिम्। अध्यासीनं च तान्विप्रांश्चुकोपोद्वीक्ष्य माधवः
यस्मादसाविमान्विप्रानध्यास्ते प्रतिलोमजः। धर्मपालांस्तथैवास्मान्वधमर्हति दुर्मतिः
ऋषेर्भगवतो भूत्वा शिष्योऽधीत्य बहूनि च। सेतिहासपुराणानि धर्मशास्त्राणि सर्वशः
अदान्तस्याविनीतस्य वृथा पण्डितमानिनः। न गुणाय भवन्ति स्म नटस्येवाजितात्मनः
एतदर्थो हि लोकेऽस्मिन्नवतारो मया कृतः। वध्या मे धर्मध्वजिनस्ते हि पातकिनोऽधिकाः
एतावदुक्त्वा भगवान्निवृत्तोऽसद्वधादपि। भावित्वात्तं कुशाग्रेण करस्थेनाहनत्प्रभुः
हाहेतिवादिनः सर्वे मुनयः खिन्नमानसाः। ऊचुः सङ्कर्षणं देवमधर्मस्ते कृतः प्रभो
अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन। आयुश्चात्माक्लमं तावद्यावत्सत्रं समाप्यते
अजानतैवाचरितस्त्वया ब्रह्मवधो यथा। योगेश्वरस्य भवतो नाम्नायोऽपि नियामकः
यद्येतद्ब्रह्महत्यायाः पावनं लोकपावन। चरिष्यति भवांल्लोक सङ्ग्रहोऽनन्यचोदितः
श्रीभगवानुवाच। चरिष्ये वधनिर्वेशं लोकानुग्रहकाम्यया। नियमः प्रथमे कल्पे यावान्स तु विधीयताम्
दीर्घमायुर्बतैतस्य सत्त्वमिन्द्रि यमेव च। आशासितं यत्तद्ब्रूते साधये योगमायया
ऋषय ऊचुः। अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च। यथा भवेद्वचः सत्यं तथा राम विधीयताम्
श्रीभगवानुवाच। आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम्। तस्मादस्य भवेद्वक्ता आयुरिन्द्रि यसत्त्ववान्
किं वः कामो मुनिश्रेष्ठा ब्रूताहं करवाण्यथ। अजानतस्त्वपइ!तिं यथा मे चिन्त्यतां बुधाः
ऋषय ऊचुः। इल्वलस्य सुतो घोरो बल्वलो नाम दानवः। स दूषयति नः सत्रमेत्य पर्वणि पर्वणि
तं पापं जहि दाशार्ह तन्नः शुश्रूषणं परम्। पूयशोणितविन्मूत्र सुरामांसाभिवर्षिणम्
ततश्च भारतं वर्षं परीत्य सुसमाहितः। चरित्वा द्वादशमासांस्तीर्थस्नायी विशुध्यसि
सुदामोपाख्यानम् – पत्नीप्रेरणया सुदाम्नो भगवत् समीपे गमनं; भगवता तस्य सत्कारश्च - श्रीराजोवाच - ( अनुष्टुप् ) भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः । वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामि हे प्रभो
को नु श्रुत्वासकृद् ब्रह्मन् उत्तमःश्लोकसत्कथाः । विरमेत विशेषज्ञो विषण्णः काममार्गणैः
( मिश्र ) सा वाग् यया तस्य गुणान् गृणीते करौ च तत्कर्मकरौ मनश्च । स्मरेद् वसन्तं स्थिरजङ्गमेषु श्रृणोति तत्पुण्यकथाः स कर्णः
शिरस्तु तस्योभयलिङ्गमानं एत्तदेव यत्पश्यति तद्धि चक्षुः । अङ्गानि विष्णोरथ तज्जनानां पादोदकं यानि भजन्ति नित्यम्
सूत उवाच - ( अनुष्टुप् ) विष्णुरातेन सम्पृष्टो भगवान् बादरायणिः । वासुदेवे भगवति निमग्नहृदयोऽब्रवीत्
श्रीशुक उवाच - कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्मवित्तमः । विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः
यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी । तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा
पतिव्रता पतिं प्राह म्लायता वदनेन सा । दरिद्रं सीदमाना वै वेपमानाभिगम्य च
ननु ब्रह्मन् भगवतः सखा साक्षाच्छ्रियः पतिः । ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभः
तमुपैहि महाभाग साधूनां च परायणम् । दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने
आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वरः । स्मरतः पादकमलं आत्मानमपि यच्छति । किं न्वर्थकामान् भजतो नात्यभीष्टान्जगद्गुरुः