( अनुष्टुप् ) एवं वदन्ति राजर्षे ऋषयः के च नान्विताः । यत् स्ववाचो विरुध्येत नूनं ते न स्मरन्त्युत
क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः । क्व चाखण्डितविज्ञान ज्ञानैश्वर्यस्त्वखण्डितः
( मिश्र ) यत्पादसेवोर्जितयाऽऽत्मविद्यया हिन्वन्त्यनाद्यात्मविपर्ययग्रहम् । लभन्त आत्मीयमनन्तमैश्वरं कुतो नु मोहः परमस्य सद्गतेः
तं शस्त्रपूगैः प्रहरन्तमोजसा शाल्वं शरैः शौरिरमोघविक्रमः । विद्ध्वाच्छिनद् वर्म धनुः शिरोमणिं सौभं च शत्रोर्गदया रुरोज ह
तत्कृष्णहस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा । विसृज्य तद् भूतलमास्थितो गदां उद्यम्य शाल्वोऽच्युतमभ्यगाद् द्रुतम्
आधावतः सगदं तस्य बाहुं भल्लेन छित्त्वाथ रथाङ्गमद्भुतम् । वधाय शाल्वस्य लयार्कसन्निभं बिभ्रद् बभौ सार्क इवोदयाचलः
जहार तेनैव शिरः सकुण्डलं किरीटयुक्तं पुरुमायिनो हरिः । वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस्तदा नृणाम्
( अनुष्टुप् ) तस्मिन्निपतिते पापे सौभे च गदया हते । नेदुर्दुन्दुभयो राजन् दिवि देवगणेरिताः । सखीनां अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे सौभवधो नाम सप्तसप्ततितमोऽध्यायः
दन्तवक्रविदूरथवधः; बलरामद्वारा सूतशिरश्छेदश्च - अथाष्टसप्ततितमोऽध्यायः श्रीशुक उवाच। शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः। परलोकगतानां च कुर्वन्पारोक्ष्यसौहृदम्
एकः पदातिः सङ्क्रुद्धो गदापाणिः प्रकम्पयन्। पद्भ्यामिमां महाराज महासत्त्वो व्यदृश्यत
तं तथायान्तमालोक्य गदामादाय सत्वरः। अवप्लुत्य रथात्कृष्णः सिन्धुं वेलेव प्रत्यधात्
गदामुद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः। दिष्ट्या दिष्ट्या भवानद्य मम दृष्टिपथं गतः
त्वं मातुलेयो नः कृष्ण मित्रध्रुङ्मां जिघांससि। अतस्त्वां गदया मन्द हनिष्ये वज्रकल्पया
तर्ह्यानृण्यमुपैम्यज्ञ मित्राणां मित्रवत्सलः। बन्धुरूपमरिं हत्वा व्याधिं देहचरं यथा
एवं रूक्षैस्तुदन्वाक्यैः कृष्णं तोत्रैरिव द्विपम्। गदयाताडयन्मूर्ध्नि सिंहवद्व्यनदच्च सः
गदयाभिहतोऽप्याजौ न चचाल यदूद्वहः। कृष्णोऽपि तमहन्गुर्व्या कौमोदक्या स्तनान्तरे
गदानिर्भिन्नहृदय उद्वमन्रुधिरं मुखात्। प्रसार्य केशबाह्वङ्घ्रीन्धरण्यां न्यपतद्व्यसुः
ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम्। पश्यतां सर्वभूतानां यथा चैद्यवधे नृप
विदूरथस्तु तद्भ्राता भ्रातृशोकपरिप्लुतः। आगच्छदसिचर्माभ्यामुच्छ्वसंस्तज्जिघांसया
तस्य चापततः कृष्णश्चक्रेण क्षुरनेमिना। शिरो जहार राजेन्द्र सकिरीटं सकुण्डलम्
एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम्। हत्वा दुर्विषहानन्यैरीडितः सुरमानवैः
मुनिभिः सिद्धगन्धर्वैर्विद्याधरमहोरगैः। अप्सरोभिः पितृगणैर्यक्षैः किन्नरचारणैः
उपगीयमानविजयः कुसुमैरभिवर्षितः। वृतश्च वृष्णिप्रवरैर्विवेशालङ्कृतां पुरीम्
एवं योगेश्वरः कृष्णो भगवान्जगदीश्वरः। ईयते पशुदृष्टीनां निर्जितो जयतीति सः
श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः। तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल
स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान्। सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृतः
पृथूदकं बिन्दुसरस्त्रितकूपं सुदर्शनम्। विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीम्
यमुनामनु यान्येव गङ्गामनु च भारत। जगाम नैमिषं यत्र ऋषयः सत्रमासते
तमागतमभिप्रेत्य मुनयो दीर्घसत्रिणः। अभिनन्द्य यथान्यायं प्रणम्योत्थाय चार्चयन्