रथं प्रापय मे सूत शाल्वस्यान्तिकमाशु वै । सम्भ्रमस्ते न कर्तव्यो मायावी सौभराडयम्
इत्युक्तश्चोदयामास रथमास्थाय दारुकः । विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम्
शाल्वश्च कृष्णमालोक्य हतप्रायबलेश्वरः । प्राहरत् कृष्णसूताय शक्तिं भीमरवां मृधे
तामापतन्तीं नभसि महोल्कामिव रंहसा । भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत्
तं च षोडशभिर्विद्ध्वा बाणैः सौभं च खे भ्रमत् । अविध्यच्छरसन्दोहैः खं सूर्य इव रश्मिभिः
शाल्वः शौरेस्तु दोः सव्यं शार्ङ्गं शार्ङ्गधन्वनः । बिभेद न्यपतद् हस्तात् शार्ङ्गमासीत् तदद्भुतम्
हाहाकारो महानासीद् भूतानां तत्र पश्यताम् । निनद्य सौभराडुच्चैः इदमाह जनार्दनम्
यत्त्वया मूढ नः सख्युः भ्रातुर्भार्या हृतेक्षताम् । प्रमत्तः स सभामध्ये त्वया व्यापादितः सखा
तं त्वाद्य निशितैर्बाणैः अपराजितमानिनम् । नयाम्यपुनरावृत्तिं यदि तिष्ठेर्ममाग्रतः
श्रीभगवानुवाच - वृथा त्वं कत्थसे मन्द न पश्यस्यन्तिकेऽन्तकम् । पौरुषं दर्शयन्ति स्म शूरा न बहुभाषिणः
इत्युक्त्वा भगवान् शाल्वं गदया भीमवेगया । तताड जत्रौ संरब्धः स चकम्पे वमन्नसृक्
गदायां सन्निवृत्तायां शाल्वस्त्वन्तरधीयत । ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् । देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन्
कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल । बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः
निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गतः । विमनस्को घृणी स्नेहाद् बभाषे प्राकृतो यथा
कथं राममसम्भ्रान्तं जित्वाजेयं सुरासुरैः । शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः
इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थितः । वसुदेवमिवानीय कृष्णं चेदमुवाच सः
एष ते जनिता तातो यदर्थमिह जीवसि । वधिष्ये वीक्षतस्तेऽमुं ईशश्चेत् पाहि बालिश
एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः । उत्कृत्य शिर आदाय खस्थं सौभं समाविशत्
( मिश्र ) ततो मुहूर्तं प्रकृतावुपप्लुतः स्वबोध आस्ते स्वजनानुषङ्गतः । महानुभावस्तदबुध्यदासुरीं मायां स शाल्वप्रसृतां मयोदिताम्
न तत्र दूतं न पितुः कलेवरं प्रबुद्ध आजौ समपश्यदच्युतः । स्वाप्नं यथा चाम्बरचारिणं रिपुं सौभस्थमालोक्य निहन्तुमुद्यतः
( अनुष्टुप् ) एवं वदन्ति राजर्षे ऋषयः के च नान्विताः । यत् स्ववाचो विरुध्येत नूनं ते न स्मरन्त्युत
क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः । क्व चाखण्डितविज्ञान ज्ञानैश्वर्यस्त्वखण्डितः
( मिश्र ) यत्पादसेवोर्जितयाऽऽत्मविद्यया हिन्वन्त्यनाद्यात्मविपर्ययग्रहम् । लभन्त आत्मीयमनन्तमैश्वरं कुतो नु मोहः परमस्य सद्गतेः
तं शस्त्रपूगैः प्रहरन्तमोजसा शाल्वं शरैः शौरिरमोघविक्रमः । विद्ध्वाच्छिनद् वर्म धनुः शिरोमणिं सौभं च शत्रोर्गदया रुरोज ह
तत्कृष्णहस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा । विसृज्य तद् भूतलमास्थितो गदां उद्यम्य शाल्वोऽच्युतमभ्यगाद् द्रुतम्
आधावतः सगदं तस्य बाहुं भल्लेन छित्त्वाथ रथाङ्गमद्भुतम् । वधाय शाल्वस्य लयार्कसन्निभं बिभ्रद् बभौ सार्क इवोदयाचलः
जहार तेनैव शिरः सकुण्डलं किरीटयुक्तं पुरुमायिनो हरिः । वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस्तदा नृणाम्
( अनुष्टुप् ) तस्मिन्निपतिते पापे सौभे च गदया हते । नेदुर्दुन्दुभयो राजन् दिवि देवगणेरिताः । सखीनां अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे सौभवधो नाम सप्तसप्ततितमोऽध्यायः
दन्तवक्रविदूरथवधः; बलरामद्वारा सूतशिरश्छेदश्च - अथाष्टसप्ततितमोऽध्यायः श्रीशुक उवाच। शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः। परलोकगतानां च कुर्वन्पारोक्ष्यसौहृदम्