बहुरूपैकरूपं तद् दृश्यते न च दृश्यते । मायामयं मयकृतं दुर्विभाव्यं परैरभूत्
क्वचिद्भूमौ क्वचिद् व्योम्नि गिरिमूर्ध्नि जले क्वचित् । अलातचक्रवद् भ्राम्यत् सौभं तद् दुरवस्थितम्
यत्र यत्रोपलक्ष्येत ससौभः सहसैनिकः । शाल्वः ततस्ततोऽमुञ्चन् शरान् सात्वतयूथपाः
शरैरग्न्यर्कसंस्पर्शैः आशीविषदुरासदैः । पीड्यमानपुरानीकः शाल्वोऽमुह्यत् परेरितैः
शाल्वानीकपशस्त्रौघैः वृष्णिवीरा भृशार्दिताः । न तत्यजू रणं स्वं स्वं लोकद्वयजिगीषवः
शाल्वामात्यो द्युमान् नाम प्रद्युम्नं प्राक् प्रपीडितः । आसाद्य गदया मौर्व्या व्याहत्य व्यनदद् बली
प्रद्युम्नं गदया शीर्ण वक्षःस्थलमरिंदमम् । अपोवाह रणात् सूतो धर्मविद् दारुकात्मजः
लब्धसंज्ञो मुहूर्तेन कार्ष्णिः सारथिमब्रवीत् । अहो असाध्विदं सूत यद् रणान्मेऽपसर्पणम्
न यदूनां कुले जातः श्रूयते रणविच्युतः । विना मत्क्लीबचित्तेन सूतेन प्राप्तकिल्बिषात्
किं नु वक्ष्येऽभिसङ्गम्य पितरौ रामकेशवौ । युद्धात् सम्यगपक्रान्तः पृष्टस्तत्रात्मनः क्षमम्
व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृजामयः । क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां मृधे
सारथिरुवाच - धर्मं विजानताऽऽयुष्मन् कृतमेतन्मया विभो । सूतः कृच्छ्रगतं रक्षेद् रथिनं सारथिं रथी
एतद् विदित्वा तु भवान् मयापोवाहितो रणात् । उपसृष्टः परेणेति मूर्च्छितो गदया हतः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे शाल्वयुद्धे षट्सप्ततितमोऽध्यायः
भगवता सौभसहितस्य शाल्वस्य विनाशः - श्रीशुक उवाच - ( अनुष्टुप् ) स तूपस्पृश्य सलिलं दंशितो धृतकार्मुकः । नय मां द्युमतः पार्श्वं वीरस्येत्याह सारथिम्
विधमन्तं स्वसैन्यानि द्युमन्तं रुक्मिणीसुतः । प्रतिहत्य प्रत्यविध्यन् नाराचैरष्टभिः स्मयन्
चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनत् । द्वावाभ्यं धनुश्च केतुं च शरेणान्येन वै शिरः
गदसात्यकिसाम्बाद्या जघ्नुः सौभपतेर्बलम् । पेतुः समुद्रे सौभेयाः सर्वे संछिन्नकन्धराः
एवं यदूनां शाल्वानां निघ्नतामितरेतरम् । युद्धं त्रिणवरात्रं तद् अभूत् तुमुलमुल्बणम्
इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्मसूनुना । राजसूयेऽथ निवृत्ते शिशुपाले च संस्थिते
कुरुवृद्धाननुज्ञाप्य मुनींश्च ससुतां पृथाम् । निमित्तान्यतिघोराणि पश्यन् द्वावारवतीं ययौ
आह चाहमिहायात आर्यमिश्राभिसङ्गतः । राजन्याश्चैद्यपक्षीया नूनं हन्युः पुरीं मम
वीक्ष्य तत्कदनं स्वानां निरूप्य पुररक्षणम् । सौभं च शाल्वराजं च दारुकं प्राह केशवः
रथं प्रापय मे सूत शाल्वस्यान्तिकमाशु वै । सम्भ्रमस्ते न कर्तव्यो मायावी सौभराडयम्
इत्युक्तश्चोदयामास रथमास्थाय दारुकः । विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम्
शाल्वश्च कृष्णमालोक्य हतप्रायबलेश्वरः । प्राहरत् कृष्णसूताय शक्तिं भीमरवां मृधे
तामापतन्तीं नभसि महोल्कामिव रंहसा । भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत्
तं च षोडशभिर्विद्ध्वा बाणैः सौभं च खे भ्रमत् । अविध्यच्छरसन्दोहैः खं सूर्य इव रश्मिभिः
शाल्वः शौरेस्तु दोः सव्यं शार्ङ्गं शार्ङ्गधन्वनः । बिभेद न्यपतद् हस्तात् शार्ङ्गमासीत् तदद्भुतम्
हाहाकारो महानासीद् भूतानां तत्र पश्यताम् । निनद्य सौभराडुच्चैः इदमाह जनार्दनम्