शाल्वस्य यदुभिः सह युद्धम् - श्रीशुक उवाच - ( अनुष्टुप् ) अथान्यदपि कृष्णस्य श्रृणु कर्माद्भुतं नृप । क्रीडानरशरीरस्य यथा सौभपतिर्हतः
शिशुपालसखः शाल्वो रुक्मिण्युद्वाह आगतः । यदुभिर्निर्जितः सङ्ख्ये जरासन्धादयस्तथा
शाल्वः प्रतिज्ञामकरोत् श्रृण्वतां सर्वभूभुजाम् । अयादवां क्ष्मां करिष्ये पौरुषं मम पश्यत
इति मूढः प्रतिज्ञाय देवं पशुपतिं प्रभुम् । आराधयामास नृपः पांसुमुष्टिं सकृद् ग्रसन्
संवत्सरान्ते भगवान् आशुतोष उमापतिः । वरेण च्छन्दयामास शाल्वं शरणमागतम्
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् । अभेद्यं कामगं वव्रे स यानं वृष्णिभीषणम्
तथेति गिरिशादिष्टो मयः परपुरंजयः । पुरं निर्माय शाल्वाय प्रादात् सौभमयस्मयम्
स लब्ध्वा कामगं यानं तमोधाम दुरासदम् । ययस्द्वारवतीं शाल्वो वैरं वृष्णिकृतं स्मरन्
निरुध्य सेनया शाल्वो महत्या भरतर्षभ । पुरीं बभञ्जोपवनान् उद्यानानि च सर्वशः
सगोपुराणि द्वाराणि प्रासादाट्टालतोलिकाः । विहारान् स विमानाग्र्यान् निपेतुः शस्त्रवृष्टयः
शिला द्रुमाश्चाशनयः सर्पा आसारशर्कराः । प्रचण्डश्चक्रवातोऽभूत् रजसाच्छादिता दिशः
इत्यर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् । नाभ्यपद्यत शं राजन् त्रिपुरेण यथा मही
प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः । म भैष्टेत्यभ्यधाद् वीरो रथारूढो महायशाः
सात्यकिश्चारुदेष्णश्च साम्बोऽक्रूरः सहानुजः । हार्दिक्यो भानुविन्दश्च गदश्च शुकसारणौ
अपरे च महेष्वासा रथयूथपयूथपाः । निर्ययुर्दंशिता गुप्ता रथेभाश्वपदातिभिः
ततः प्रववृते युद्धं शाल्वानां यदुभिः सह । यथासुराणां विबुधैः तुमुलं लोमहर्षणम्
ताश्च सौभपतेर्माया दिव्यास्त्रै रुक्मिणीसुतः । क्षणेन नाशयामास नैशं तम इवोष्णगुः
विव्याध पञ्चविंशत्या स्वर्णपुङ्खैरयोमुखैः । शाल्वस्य ध्वजिनीपालं शरैः सन्नतपर्वभिः
शतेनाताडयच्छाल्वं एकैकेनास्य सैनिकान् । दशभिर्दशभिर्नेतॄन् वाहनानि त्रिभिस्त्रिभिः
तदद्भुतं महत् कर्म प्रद्युम्नस्य महात्मनः । दृष्ट्वा तं पूजयामासुः सर्वे स्वपरसैनिकाः
बहुरूपैकरूपं तद् दृश्यते न च दृश्यते । मायामयं मयकृतं दुर्विभाव्यं परैरभूत्
क्वचिद्भूमौ क्वचिद् व्योम्नि गिरिमूर्ध्नि जले क्वचित् । अलातचक्रवद् भ्राम्यत् सौभं तद् दुरवस्थितम्
यत्र यत्रोपलक्ष्येत ससौभः सहसैनिकः । शाल्वः ततस्ततोऽमुञ्चन् शरान् सात्वतयूथपाः
शरैरग्न्यर्कसंस्पर्शैः आशीविषदुरासदैः । पीड्यमानपुरानीकः शाल्वोऽमुह्यत् परेरितैः
शाल्वानीकपशस्त्रौघैः वृष्णिवीरा भृशार्दिताः । न तत्यजू रणं स्वं स्वं लोकद्वयजिगीषवः
शाल्वामात्यो द्युमान् नाम प्रद्युम्नं प्राक् प्रपीडितः । आसाद्य गदया मौर्व्या व्याहत्य व्यनदद् बली
प्रद्युम्नं गदया शीर्ण वक्षःस्थलमरिंदमम् । अपोवाह रणात् सूतो धर्मविद् दारुकात्मजः
लब्धसंज्ञो मुहूर्तेन कार्ष्णिः सारथिमब्रवीत् । अहो असाध्विदं सूत यद् रणान्मेऽपसर्पणम्
न यदूनां कुले जातः श्रूयते रणविच्युतः । विना मत्क्लीबचित्तेन सूतेन प्राप्तकिल्बिषात्
किं नु वक्ष्येऽभिसङ्गम्य पितरौ रामकेशवौ । युद्धात् सम्यगपक्रान्तः पृष्टस्तत्रात्मनः क्षमम्