दृष्ट्वा दुराद् गतः सोऽहं कौतुकेन तदन्तिकम् । मां दृष्ट्वा चोत्थिता बाला विह्वला चाब्रवीद् वचः
बालोवाच - भो भोः साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय । दर्शनं तव लोकस्य सर्वथाघहरं परम्
बहुधा तव वाक्येन दुःखशान्तिर्भविष्यति । यदा भाग्यं भवेद् भूरि भवतो दर्शनं तदा
नारद उवाच - कासि त्वं कौ इमौ चेमा नार्यः काः पद्मलोचनाः । वद देवि सविस्तारं स्वस्य दुःखस्य कारणम्
बालोवाच - अहं भक्तिरिति ख्याता इमौ मे तनयौ मतौ । ज्ञानवैराग्य नामानौ कालयोगेन जर्जरौ
गङ्गाद्या स्मरितश्चेमा मत्सेवार्थं समागताः । तथापि न च मे श्रेयः सेवितायाः सुरैरपि
इदानीं श्रुणु मद्वार्तां सचित्तस्त्वं तपोधन । वार्ता मे वितताप्यस्ति तां श्रुत्वा सुखमावह
उत्पन्ना द्रविडे साहं वृद्धिं कर्नाटके गता । क्वचित् क्वचित् महाराष्ट्रे गुर्जरे जीर्णतां गता
तत्र घोर कलेर्योगात् पाखण्डैः खण्डिताङ्गका । दुर्बलाहं चिरं याता पुत्राभ्यां सह मन्दताम्
वृन्दावनं पुनः प्राप्य नवीनेव सुरूपिणी । जाताहं उवती सम्यक् श्रेष्ठरूपा तु सांप्रतम्
इमौ तु शयितौ अत्र सुतौ मे क्लिश्यतः श्रमात् । इदं स्थानं परित्यज्य विदेशं गम्यते मया
जरठत्वं समायातौ तेन दुःखेन दुःखिता । साहं तु तरुणी कस्मात् सुतौ वृद्धौ इमौ कुतः
त्रयाणां सहचारित्वात् वैपरीत्यं कुतः स्थितम् । घटते जरठा माता तरुणौ तनयौ इति
अतः शोचामि चात्मानं विस्मयाविष्टमानसा । वद योगनिधे धीमन् कारणं चात्र किं भवेत्
नारद उवाच - ज्ञानेनात्मनि पश्यामि सर्वं एतत् तवानघे । न विषादः त्वया कार्यो हरिः शं ते करिष्यति
सूत उवाच - क्षणमात्रेण तज्ज्ञात्वा वाक्यं ऊचे मुनीश्वरः
नारद उवाच - श्रुणुष्ववहिता बाले योगोऽयं दारुणा कलिः । तेन लुप्तः सदाचारो योगमार्गः तपांसि च
जना अघासुरायन्ते शाठ्यदुष्कर्मकारिणः । इह सन्तो विषीदन्ति प्रहृष्यन्ति हि असाधवः । धत्ते धैर्यं तु यो धीमान् स धीरः पण्डितोऽथवा
अस्पृश्यान् अवलोक्येयं शेषभारकरी धरा । वर्षे वर्षे क्रमात् जाता मंगलं नापि दृश्यते
न त्वामपि सुतैः साकं कोऽपि पश्यति सांप्रतम् । उपेक्षितानुरागान्धैः जर्जरत्वेन संस्थिता
वृन्दावनस्य संयोगात् पुनस्त्वं तरुणी नवा । धन्यं वृन्दावनं तेन भक्तिः नृत्यति यत्र च
अत्रेमौ ग्राहकाभावात् न जरामपि मुञ्चतः । किञ्चित् आत्मसुखेनेह प्रसुप्तिः मन्यतेऽनयोः
भक्तिरुवाच - कथं परीक्षिता राज्ञा स्थापितो ह्यशुचिः कलिः । प्रवृत्ते तु कलौ सर्वसारः कुत्र गतो महान्
करुणापरेण हरिणापि अधर्म कथमीक्ष्यते । इमं मे संशयं छिन्धि त्वद्वाचा सुखितास्म्यहम्
नारद उवाच - यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु । सर्वं वक्ष्यामि ते भद्रे कश्मलं ते गमिष्यति
यदा मुकुन्दो भगवान् क्ष्मां त्यक्त्वा स्वपदं गतः । तद्दिनात् कलिरायातः सर्वसाधनबाधकः
दृष्टो दिग्विजये राज्ञा दीनवत् शरणं गतः । न मया मारणीयोऽयं सारंग इव सरभुक्
यत्फलं नास्ति तपसा न योगेन समाधिना । तत्फलं लभते सम्यक् कलौ केशवकीर्तनात्
एकाकारं कलिं दृष्ट्वा सारवत्सारनीरसम् । विष्णुरातः स्थापितवान् कलिजानां सुखाय च
कुकर्माचरनात्सारः सर्वतो निर्गतोऽधुना । पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथा