ततो युधिष्ठिरो राजा सुहृत् संबंन्धि बान्धवान् । प्रेम्णा निवारयामास कृष्णं च त्यागकातरः
भगवानपि तत्राङ्ग न्यवात्सीत् तत्प्रियंकरः । प्रस्थाप्य यदुवीरांश्च साम्बादींश्च कुशस्थलीम्
इत्थं राजा धर्मसुतो मनोरथमहार्णवम् । सुदुस्तरं समुत्तीर्य कृष्णेनासीद् गतज्वरः
एकदान्तःपुरे तस्य वीक्ष्य दुर्योधनः श्रियम् । अतप्यद् राजसूयस्य महित्वं चाच्युतात्मनः
( वसंततिलका ) यस्मिन् नरेन्द्रदितिजेन्द्र सुरेन्द्रलक्ष्मीः नाना विभान्ति किल विश्वसृजोपकॢप्ताः । ताभिः पतीन्द्रुपदराजसुतोपतस्थे यस्यां विषक्तहृदयः कुरुराडतप्यत्
यस्मिन् तदा मधुपतेर्महिषीसहस्रं श्रोणीभरेण शनकैः क्वणदङ्घ्रिशोभम् । मध्ये सुचारु कुचकुङ्कुमशोणहारं श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यम्
( अनुष्टुप् ) सभायां मयकॢप्तायां क्वापि धर्मसुतोऽधिराट् । वृतोऽनुगैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा
आसीनः काञ्चने साक्षात् आसने मघवानिव । पारमेष्ठ्यश्रीया जुष्टः स्तूयमानश्च वन्दिभिः
तत्र दुर्योधनो मानी परीतो भ्रातृभिर्नृप । किरीटमाली न्यविशद् असिहस्तः क्षिपन् रुषा
स्थलेऽभ्यगृह्णाद् वस्त्रान्तं जलं मत्वा स्थलेऽपतत् । जले च स्थलवद् भ्रान्त्या मयमायाविमोहितः
जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयोऽपरे । निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिताः
( मिश्र ) स व्रीडितोऽवाग्वदनो रुषा ज्वलन् निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् । हाहेति शब्दः सुमहानभूत् सतां अजातशत्रुर्विमना इवाभवत् । बभूव तूष्णीं भगवान्भुवो भरं समुज्जिहीर्षुर्भ्रमति स्म यद् दृशा
( अनुष्टुप् ) एतत्तेऽभिहितं राजन् यत्पृष्टोऽहमिह त्वया । सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे दुर्योधनमानभंगो नाम पञ्चसप्ततितमोऽध्यायः
शाल्वस्य यदुभिः सह युद्धम् - श्रीशुक उवाच - ( अनुष्टुप् ) अथान्यदपि कृष्णस्य श्रृणु कर्माद्भुतं नृप । क्रीडानरशरीरस्य यथा सौभपतिर्हतः
शिशुपालसखः शाल्वो रुक्मिण्युद्वाह आगतः । यदुभिर्निर्जितः सङ्ख्ये जरासन्धादयस्तथा
शाल्वः प्रतिज्ञामकरोत् श्रृण्वतां सर्वभूभुजाम् । अयादवां क्ष्मां करिष्ये पौरुषं मम पश्यत
इति मूढः प्रतिज्ञाय देवं पशुपतिं प्रभुम् । आराधयामास नृपः पांसुमुष्टिं सकृद् ग्रसन्
संवत्सरान्ते भगवान् आशुतोष उमापतिः । वरेण च्छन्दयामास शाल्वं शरणमागतम्
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् । अभेद्यं कामगं वव्रे स यानं वृष्णिभीषणम्
तथेति गिरिशादिष्टो मयः परपुरंजयः । पुरं निर्माय शाल्वाय प्रादात् सौभमयस्मयम्
स लब्ध्वा कामगं यानं तमोधाम दुरासदम् । ययस्द्वारवतीं शाल्वो वैरं वृष्णिकृतं स्मरन्
निरुध्य सेनया शाल्वो महत्या भरतर्षभ । पुरीं बभञ्जोपवनान् उद्यानानि च सर्वशः
सगोपुराणि द्वाराणि प्रासादाट्टालतोलिकाः । विहारान् स विमानाग्र्यान् निपेतुः शस्त्रवृष्टयः
शिला द्रुमाश्चाशनयः सर्पा आसारशर्कराः । प्रचण्डश्चक्रवातोऽभूत् रजसाच्छादिता दिशः
इत्यर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् । नाभ्यपद्यत शं राजन् त्रिपुरेण यथा मही
प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः । म भैष्टेत्यभ्यधाद् वीरो रथारूढो महायशाः
सात्यकिश्चारुदेष्णश्च साम्बोऽक्रूरः सहानुजः । हार्दिक्यो भानुविन्दश्च गदश्च शुकसारणौ
अपरे च महेष्वासा रथयूथपयूथपाः । निर्ययुर्दंशिता गुप्ता रथेभाश्वपदातिभिः
ततः प्रववृते युद्धं शाल्वानां यदुभिः सह । यथासुराणां विबुधैः तुमुलं लोमहर्षणम्