वर्णितं तदुपाख्यानं मया ते बहुविस्तरम् । वैकुण्ठवासिनोर्जन्म विप्रशापात् पुनः पुनः
राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः । ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव
राज्ञा सभाजिताः सर्वे सुरमानवखेचराः । कृष्णं क्रतुं च शंसन्तः स्वधामानि ययुर्मुदा
दुर्योधनमृते पापं कलिं कुरुकुलामयम् । यो न सेहे श्रीयं स्फीतां दृष्ट्वा पाण्डुसुतस्य ताम्
य इदं कीर्तयेद् विष्णोः कर्म चैद्य वधादिकम् । राजमोक्षं वितानं च सर्वपापैः प्रमुच्यते
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे शिशुपालवधो नाम चतुःसप्ततितमोऽध्यायः
राजसूयान्तेऽवभृथस्नानमहोत्सवः; मयनिर्मितायां युधिष्ठिरसभायां दुर्योधनस्यावमाननं च - श्रीराजोवाच - ( अनुष्टुप् ) अजातशत्रोस्तं दृष्ट्वा राजसूयमहोदयम् । सर्वे मुमुदिरे ब्रह्मन् नृदेवा ये समागताः
दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः । इति श्रुतं नो भगवन् तत्र कारणमुच्यताम्
श्रीबादरायणिरुवाच - पितामहस्य ते यज्ञे राजसूये महात्मनः । बान्धवाः परिचर्यायां तस्यासन् प्रेमबंधनाः
भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः । सहदेवस्तु पूजायां नकुलो द्रव्यसाधने
गुरुशुश्रूषणे जिष्णुः कृष्णः पादावनेजने । परिवेषणे द्रुपदजा कर्णो दाने महामनाः
युयुधानो विकर्णश्च हार्दिक्यो विदुरादयः । बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः
निरूपिता महायज्ञे नानाकर्मसु ते तदा । प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षवः
( वसंततिलका ) ऋत्विक् सदस्यबहुवित्सु सुहृत्तमेषु स्विष्टेषु सूनृतसमर्हणदक्षिणाभिः । चैद्ये च सात्वतपतेश्चरणं प्रविष्टे चक्रुस्ततस्त्ववभृथ स्नपनं द्युनद्याम्
( अनुष्टुप् ) मृदङ्गशङ्खपणव धुन्धुर्यानकगोमुखाः । वादित्राणि विचित्राणि नेदुरावभृथोत्सवे
नर्तक्यो ननृतुर्हृष्टा गायका यूथशो जगुः । वीणावेणुतलोन्नादः तेषां स दिवमस्पृशत्
चित्रध्वजपताकाग्रैः इभेन्द्रस्यन्दनार्वभिः । स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुक्ममालिनः
यदुसृञ्जयकाम्बोज कुरुकेकयकोशलाः । कम्पयन्तो भुवं सैन्यैः यजनपुरःसराः
सदस्यर्त्विग्द्विजश्रेष्ठा ब्रह्मघोषेण भूयसा । देवर्षिपितृगन्धर्वाः तुष्टुवुः पुष्पवर्षिणः
स्वलंकृता नरा नार्यो गन्धस्रग् भूषणाम्बरैः । विलिंपन्त्यो अभिसिंच विजह्रुर्विविधै रसैः
तैलगोरसगन्धोद हरिद्रासान्द्रकुंकुमैः । पुम्भिर्लिप्ताः प्रलिंपन्त्यो विजह्रुर्वारयोषितः
( वसंततिलका ) गुप्ता नृभिर्निरगमन्नुपलब्धुमेतद् देव्यो यथा दिवि विमानवरैर्नृदेव्यः । ता मातुलेयसखिभिः परिषिच्यमानाः सव्रीडहासविकसद् वदना विरेजुः
ता देवरानुत सखीन् सिन्सिषिचुर्दृतीभिः क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः । औत्सुक्यमुक्त कवरा च्च्यवमानमाल्याः क्षोभं दधुर्मलधियां रुचिरैर्विहारैः
( अनुष्टुप् ) स सम्राड् रथमारुढः सदश्वं रुक्ममालिनम् । व्यरोचत स्वपत्नीभिः क्रियाभिः क्रतुराडिव
पत्नीसंयाजावभृथ्यैः चरित्वा ते तमृत्विजः । आचान्तं स्नापयां चक्रुः गंगायां सह कृष्णया
देवदुन्दुभयो नेदुः नरदुंदुभिभिः समम् । मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः
सस्नुस्तत्र ततः सर्वे वर्णाश्रमयुता नराः । महापातक्यपि यतः सद्यो मुच्येत किल्बिषात्
अथ राजाहते क्षौमे परिधाय स्वलङ्कृतः । ऋत्विक् सदस्य विप्रादीन् आनर्चाभरणाम्बरैः
बन्धूञ्ज्ञातीन् नृपान् मित्र सुहृदोऽन्यांश्च सर्वशः । अभीक्ष्णं पूजयामास नारायणपरो नृपः
( वसंततिलका ) सर्वे जनाः सुररुचो मणिकुण्डलस्रग् उष्णीषकञ्चुक दुकूलमहार्घ्यहाराः । नार्यश्च कुण्डलयुगालकवृन्दजुष्ट वक्त्रश्रियः कनकमेखलया विरेजुः