ब्रह्मर्षिसेवितान् देशान् हित्वैतेऽब्रह्मवर्चसम् । समुद्रं दुर्गमाश्रित्य बाधन्ते दस्यवः प्रजाः
एवं आदीन्यभद्राणि बभाषे नष्टमङ्गलः । नोवाच किञ्चिद् भगवान् यथा सिंहः शिवारुतम्
भगवन् निन्दनं श्रुत्वा दुःसहं तत्सभासदः । कर्णौ पिधाय निर्जग्मुः शपन्तश्चेदिपं रुषा
निन्दां भगवतः श्रृण्वन् तत्परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः
ततः पाण्डुसुताः क्रुद्धा मत्स्यकैकयसृञ्जयाः । उदायुधाः समुत्तस्थुः शिशुपालजिघांसवः
ततश्चैद्यस्त्वसंभ्रान्तो जगृहे खड्गचर्मणी । भर्त्सयन् कृष्णपक्षीयान् राज्ञः सदसि भारत
तावदुत्थाय भगवान् स्वान् निवार्य स्वयं रुषा । शिरः क्षुरान्तचक्रेण जहार पततो रिपोः
शब्दः कोलाहलोऽथासीन् शिशुपाले हते महान् । तस्यानुयायिनो भूपा दुद्रुवुर्जीवितैषिणः
चैद्यदेहोत्थितं ज्योतिः वासुदेवमुपाविशत् । पश्यतां सर्वभूतानां उल्केव भुवि खाच्च्युता
जन्मत्रयानुगुणित वैरसंरब्धया धिया । ध्यायन् तन्मयतां यातो भावो हि भवकारणम्
ऋत्विग्भ्यः ससदस्येभ्यो दक्षिनां विपुलामदात् । सर्वान् संपूज्य विधिवत् चक्रेऽवभृथमेकराट्
साधयित्वा क्रतुः राज्ञः कृष्णो योगेश्वरेश्वरः । उवास कतिचिन् मासान् सुहृद्भिः अभियाचितः
ततोऽनुज्ञाप्य राजानं अनिच्छन्तमपीश्वरः । ययौ सभार्यः सामात्यः स्वपुरं देवकीसुतः
वर्णितं तदुपाख्यानं मया ते बहुविस्तरम् । वैकुण्ठवासिनोर्जन्म विप्रशापात् पुनः पुनः
राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः । ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव
राज्ञा सभाजिताः सर्वे सुरमानवखेचराः । कृष्णं क्रतुं च शंसन्तः स्वधामानि ययुर्मुदा
दुर्योधनमृते पापं कलिं कुरुकुलामयम् । यो न सेहे श्रीयं स्फीतां दृष्ट्वा पाण्डुसुतस्य ताम्
य इदं कीर्तयेद् विष्णोः कर्म चैद्य वधादिकम् । राजमोक्षं वितानं च सर्वपापैः प्रमुच्यते
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे शिशुपालवधो नाम चतुःसप्ततितमोऽध्यायः
राजसूयान्तेऽवभृथस्नानमहोत्सवः; मयनिर्मितायां युधिष्ठिरसभायां दुर्योधनस्यावमाननं च - श्रीराजोवाच - ( अनुष्टुप् ) अजातशत्रोस्तं दृष्ट्वा राजसूयमहोदयम् । सर्वे मुमुदिरे ब्रह्मन् नृदेवा ये समागताः
दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः । इति श्रुतं नो भगवन् तत्र कारणमुच्यताम्
श्रीबादरायणिरुवाच - पितामहस्य ते यज्ञे राजसूये महात्मनः । बान्धवाः परिचर्यायां तस्यासन् प्रेमबंधनाः
भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः । सहदेवस्तु पूजायां नकुलो द्रव्यसाधने
गुरुशुश्रूषणे जिष्णुः कृष्णः पादावनेजने । परिवेषणे द्रुपदजा कर्णो दाने महामनाः
युयुधानो विकर्णश्च हार्दिक्यो विदुरादयः । बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः
निरूपिता महायज्ञे नानाकर्मसु ते तदा । प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षवः
( वसंततिलका ) ऋत्विक् सदस्यबहुवित्सु सुहृत्तमेषु स्विष्टेषु सूनृतसमर्हणदक्षिणाभिः । चैद्ये च सात्वतपतेश्चरणं प्रविष्टे चक्रुस्ततस्त्ववभृथ स्नपनं द्युनद्याम्
( अनुष्टुप् ) मृदङ्गशङ्खपणव धुन्धुर्यानकगोमुखाः । वादित्राणि विचित्राणि नेदुरावभृथोत्सवे
नर्तक्यो ननृतुर्हृष्टा गायका यूथशो जगुः । वीणावेणुतलोन्नादः तेषां स दिवमस्पृशत्
चित्रध्वजपताकाग्रैः इभेन्द्रस्यन्दनार्वभिः । स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुक्ममालिनः