तद्ग्रामे ये स्थिता जीवा आश्वचाण्डालजातयः । विमाने स्थापितास्तेऽपि गोकर्णकृपया तदा
प्रेषिता हरिलोके ते यत्र गच्छन्ति योगिनः । गोकर्णेन स गोपालो गोलोकं गोपवल्लभम् । कथाश्रवणतः प्रीतो निर्ययौ भक्तवत्सलः
अयोध्यावासिनं पूर्वं यथा रामेण संगताः । तथा कृष्णेन ते नीता गोलोकं योगिदुर्लभम्
यत्र सूर्यस्य सोमस्य सिद्धानां न गतिः कदा । तं लोकं हि गतास्ते तु श्रीमद्भागवतश्रवात्
(इंद्रवंशा) ब्रूमोऽत्र ते किं फलवृन्दमुज्ज्वलं सप्ताहयज्ञेन कथासु संचितम् । कर्णेन गोकर्णकथाक्षरो यैः पीतश्च ते गर्भगता न भूयः
वाताम्बुपर्णाशन देहशोषणैः तपोभिः उग्रैः चिरकालसंचितैः । योगैश्च संयान्ति न तां गतिं वै सप्ताहगाथाश्रवणेन यान्ति याम्
(अनुष्टुप्) इतिहासं इमं पुण्यं शाण्डिल्योऽपि मुनीश्वरः । पठते चित्रकूटस्थो ब्रह्मानन्दपरिप्लुतः
(इंद्रवज्रा) आख्यानमेतत् परमं पवित्रं श्रुतं सकृद्वै विदहेदघौघम् । श्राद्धे प्रयुक्तं पितृतृप्तिमावहेत् नित्यं सुपाठाद अपुनर्भवं च
श्रीमद्भागवतमाहात्म्यम् - षष्ठोऽध्यायः श्रीमद्भागवत सप्ताहपारायणविधिः कुमारा ऊचुः - (अनुष्टुप्) अथ ते संप्रवक्ष्यामः सप्ताहश्रवणे विधिम् । सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः
दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्नतः । विवाहे यादृशं वित्तं तादृशं परिकल्पयेत्
नभस्य आश्विनोर्जौ च मार्गशीर्षः शुचिर्नभाः । एते मासाः कथारम्भे श्रोतॄणां मोक्षसूचकाः
मासानां विप्र हेयानि तानि त्याज्यानि सर्वथा । सहायाश्चेतरे तत्र कर्तव्याः सोद्यमाश्च ये
देशे देशे तथा सेयं वार्ता प्रेष्या प्रयत्नतः । भविष्यति कथा चात्र आगन्तव्यं कुटुम्बिभिः
दूरे हरिकथाः केचित् दूरे चाच्युतकीर्तनाः । स्त्रियः शूद्रादयो ये च तेषां बोधो यतो भवेत्
देशे देशे विरक्ता ये वैष्णवाः कीर्तनोत्सुकाः । तेष्वेव पत्रं प्रेष्यं च तल्लेखनं इतीरितम्
सतां समाजो भविता सप्तरात्रं सुदुर्लभः । अपूर्वरसरूपैव कथा चात्र भविष्यति
श्रीमद्भागवत पीयुष पानाय रसलम्पटाः । भवन्तश्च तथा शीघ्रं आयात प्रेमतत्पराः
नावकाशः कदाचित् चेत् दिनमात्रं तथापि तु । सर्वथाऽऽगमनं कार्यं क्षणोऽत्रैव सुदुर्लभः
एवमाकारणं तेषां कर्तव्यं विनयेन च । आगन्तुकानां सर्वेषां वासस्थानानि कल्पयेत्
तीर्थे वापि वने वापि गृहे वा श्रवणं मतम् । विशाला वसुधा यत्र कर्तव्यं तत्कथास्थलम्
शोधनं मार्जनं भूमेः लेपनं धातुमण्डनम् । गृहोपस्करमुद्ध्रुत्य गृहकोणे निवेशयेत्
अर्वाक् पंचाहतो यत्नात् आस्तीर्णानि प्रमेलयेत् । कर्तव्यो मण्डपः प्रोच्चैः कदलीखण्डमण्डितः
फलपुष्पदलैर्विष्वक् वितानेन विराजितः । चतुर्दिक्षु ध्वजारोपो बहुसम्पद्विराजितः
ऊर्ध्वं सप्तैव लोकाश्च कल्पनीयाः सविस्तरम् । तेषु विप्रा विरक्ताश्च स्थापनीयाः प्रबोध्य च
पूर्वं तेषां आसनानि कर्तव्यानि यथोत्तरम् । वक्तुश्चापि तदा दिव्यं आसनं परिकल्पयेत्
उदङ्मुखो भवेद्वक्ता श्रोता वै प्राङ्मुखस्तदा । प्राङ्मुखश्चेत् भवेद्वक्ता श्रोता च उदङ्मुखस्तदा
अथवा पूर्वदिग्ज्ञेया पूज्यपूजकमध्यतः । श्रोतॄणां आगमे प्रोक्ता देशकालादिकोविदैः
विरक्तो वैष्णवो विप्रो वेदशास्त्रविशुद्धिकृत् । दृष्टान्तकुशलो धीरो वक्ता कार्योऽति निःस्पृह
अनेकधर्मनिभ्रान्ताः स्त्रैणाः पाखण्डवादिनः । शुकशास्त्रकथोच्चारे त्याज्यास्ते यदि पण्डिताः
वक्तुः पार्श्वे सहायार्थं अन्यः स्थाप्यस्तथाविधः । पण्डितः संशयच्छेत्ता लोकबोधनतत्परः